SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः२ द्वितीयमध्ययनं क्रियास्थानम्, सूत्रम् 42 (677) आत्मार्थवादि श्रीसूत्रकृताङ्ग 8 अंतं करेंसुवाणो करेंति वाणो करिस्संतिवा॥एयंसि चेव तेरसमे किरियाठाणे वट्टमाणाजीवा सिद्धिंसुबुद्धिंसु मुश्चिंसुपरिणिव्वाइंसु नियुक्ति जाव सव्वदुक्खाणं अंतं करेसुंवा करंति वा करिस्संति वा / एवं से भिक्खु आयट्ठी आयहिते आयगुत्ते आयजोगे आयपरक्कमे श्रीशीला वृत्तियुतम् आयरक्खिए आयाणुकंपए आयनिप्फेडए आयाणमेव पडिसाहरेज्जासि त्तिबेमि // सूत्रम् 42 // 677 // इति बीयसुयक्रोधस्स श्रुतस्कन्धः२ किरियाठाणं नाम बीयमज्झयणं समत्तं // // 626 // इत्येतेषु द्वादशसु क्रियास्थानेष्वधर्मपक्षोऽनुपशमरूपः समवतार्यते, अत एतेषु वर्तमाना जीवा नातीते काले सिद्धान वर्तमाने सिध्यन्ति न भविष्यति सेत्स्यन्ति, तथा न बुबुधिरे न बुध्यन्ते न च भोत्स्यन्ते, तथा न मुमुचुर्न मुञ्चन्ति न च मोक्ष्यन्ते, तथा न निर्वृता इन निर्वान्ति न च निर्वास्यन्ति, तथा न दुःखानामन्तं ययुर्न पुनर्यान्ति न च यास्यन्तीति // साम्प्रतं त्रयोदशं क्रियास्थानं धर्मपक्षाश्रित दर्शयितुमाह- एतस्मिंस्त्रयोदशे क्रियास्थाने वर्तमाना जीवाः सिद्धाः सिध्यन्ति सेत्स्यन्तीति यावत्सर्वदुःखानामन्तं करिष्यन्तीति स्थितम् / तदेवं स भिक्षुर्यः पौण्डरीकाध्ययनेऽभिहितो द्वादशक्रियास्थानवर्जकः अधर्मपक्षानुपशमपरित्यागी धर्मपक्षे स्थित उपशान्त आत्मना आत्मनो वाऽर्थः आत्मार्थः स विद्यते यस्य स तथा, यो ह्यन्यमपायेभ्यो रक्षतिस आत्मार्थ्यात्मवानित्युच्यते, अहिताचाराश्च चौरादयो नात्मवन्तोऽयं त्वात्महित ऐहिकामुष्मिकापायभीरुत्वात्, तथाऽऽत्मा गुप्तो यस्य स तथा, एतदुक्तं भवति-स्वयमेवासौ संयमानुष्ठाने पराक्रमते, तथाऽऽत्मयोगी आत्मनो योगः- कुशलमनःप्रवृत्तिरूप आत्मयोगः स यस्यास्ति स तथा, सदा धर्मध्यानावस्थित इत्यर्थः, तथाऽऽत्मा पापेभ्यो दुर्गतिगमनादिभ्यो रक्षितो येन स तथा, दुर्गतिगमनहेतुनिबन्धनस्य सावधानुष्ठानस्य निवृत्तत्त्वादितिभावः, तथाऽऽत्मानमेवानर्थपरिहारद्वारेणानुकम्पते शुभानुष्ठानेन सद्गतिगामिनं विधत्त इति, 0 कर्त्तरिप्रयोगे आद्यद्वये कर्मण इत्यध्याहारः। // 626 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy