SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 625 // श्रुतस्कन्धः 2 द्वितीयमध्ययनं क्रियास्थानम्, सूत्रम् 41 तदेवंभूतं भूयो भूयः पौनः पुन्येनानुपरिवर्तिष्यन्ते- अरहट्टघटीन्यायेन तत्रैव भ्रमन्तः स्थास्यन्तीति, अत एवाह- यतस्ते प्राणिनां हन्तारः, कुत एतदिति चेत्सावधोपदेशाद्, एतदपि कथमिति चेदन्ततः औद्देशिकादिपरिभोगानुज्ञयेत्येवमवगन्तव्यमित्यतस्ते कुप्रावचनिका नैव सेत्स्यन्ति- नैव ते लोकाग्रस्थानमाक्रमिष्यन्ति, तथा न ते सर्वपदार्थान् केवलज्ञानावाप्त्या भोत्स्यन्ते, अनेन ज्ञानातिशयाभावमाह, तथा न तेऽष्टप्रकारेण कर्मणा मोक्ष्यन्ते, अनेनाप्यसिद्धेरकैवल्यावाप्तेश्च कारणमाह, तथा परिनिर्वृतिः परिनिर्वाणं- आनन्दसुखावाप्तिस्तां ते नैव प्राप्स्यन्ते, अनेनापि सुखातिशयाभावः प्रदर्शितो भवतीति, तथा नैते शारीरमानसानां दुःखानामात्यन्तिकमन्तं करिष्यन्तीत्यनेनाप्यपायाँतिशयाभावः प्रदर्शितो भवति / एषा तुला तदेतदुपमान यथा सावद्यानुष्ठानपरायणाः सावधभाषिणश्च कुप्रावचनिका न सिध्यन्त्येवं स्वयूथ्या अप्यौद्देशिकादिपरिभोगिनो न सिध्यन्तीति। तदेतत्प्रमाणं प्रत्यक्षानुमानादिकम्, तथाहि- प्रत्यक्षेणैव जीवपीडाकारी चौरादिर्बन्धनान्न मुच्यते, एवमन्येऽपीति, अनुमानादिकमप्यायोज्यम् / तथा तदेतत्समवसरणं- आगमविचाररूपमिति, प्रत्येकं च प्रतिप्राणि प्रतिप्रावादुकमेतत्तुलादिकं द्रष्टव्यमिति // ये पुनर्विदिततत्त्वा आत्मौपम्येन- आत्मतुलया सर्वजीवेष्वहिंसां कुर्वाणा एवमाचक्षते, तद्यथासर्वेऽपि जीवा दुःखद्विषः सुखलिप्सवस्ते न हन्तव्या इत्यादि। तदेवं पूर्वोक्तं दण्डनादिकं सप्रतिषेधं भणनीयं यावत्संसारकान्तारमचिरेणैव ते व्यतिक्रमिष्यन्तीति // 41 // 676 // भणितानि क्रियास्थानानि, साम्प्रतमुपसंजिघृक्षुरेतदेव पूर्वोक्तं समासेन बिभणिषुराह__ इच्चेतेहिं बारसहिं किरियाठाणेहिं वट्टमाणा जीवाणो सिज्झिंसुणो बुद्धिंसुणो मुचिंसुणो परिणिव्वाइंसुजावणो सव्वदुक्खाणं रुपगमा० क्वचित् क्वचिच्च० नाप्यायाति०1 0 आत्यन्तिकदुःखनाशाभाव इति / (676) अहिंसा प्रतिपादनम् सूत्रम् 42 (677) आत्मार्थवादि गुणो भिक्षुः // 625 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy