SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 624 // द्वितीयमध्ययन क्रियास्थानम्, सूत्रम् 41 (676) अहिंसा प्रतिपादनम् हिंसैव प्राधान्येनाश्रयणीया, तदेतत्प्रमाणं सैषा युक्ति: 'आत्मवत्सर्वभूतानि, यः पश्यति स पश्यति / तदेतत् समवसरणं-स एव धर्मविचारो यत्राहिंसा संपूर्णा तत्रैव परमार्थतो धर्मः, इत्येवं व्यवस्थिते तत्र ये केचनाविदितपरमार्थाः श्रमणब्राह्मणादयः एवं वक्ष्यमाणमाचक्षते परेषामात्मदाढ्र्योत्पादनायैवंभाषन्ते तथैवमेव धर्म प्रज्ञापयन्ति व्यवस्थापयन्ति, तथा अनेन प्राण्युपतापकारिणा प्रकारेण परेषां धर्म प्ररूपयन्ति व्याचक्षते, तद्यथा- सर्वे प्राणा इत्यादि, यावद्धन्तव्या दण्डादिभिः परितापयितव्या धर्मार्थमरघट्टादिवहनादिभिः परिग्राह्या विशिष्टकाले श्राद्धादौ रोहितमत्स्यादय इव तथाऽपद्रावयितव्या देवतायागादिनिमित्तं बस्तादय इवेत्येवं ये श्रमणादयः प्राणिनामुपतापकारिणी भाषांभाषन्ते (ते) आगामिनि कालेऽनेकेशो बहुशः स्वशरीरच्छेदाय भेदाय च भाषन्ते, तथा ते सावधभाषिणो भविष्यति काले जातिजरामरणानि बहूनि प्राप्नुवन्ति / योन्यां जन्म योनिजन्म तदनेकशो गर्भव्युत्क्रान्तजावस्थायां प्राप्नुवन्ति, तथा संसारप्रपञ्चान्तर्गतास्तेजोवायुषूच्चैर्गोत्रोद्वलनेन कलङ्कलीभावभाजो भवन्ति बहुशो भविष्यन्ति च, तथा ते बहूनां दण्डादीनां शारीराणां दुःखानामात्मानं भाजनं कुर्वन्ति, तथा ते निर्विवेका मातृवधादीनां मानसानां दुःखानां तथाऽन्येषामप्रियसंप्रयोगार्थनाशादिभिर्दुःखदौर्मनस्यानामाभागिनो भविष्यन्तीति / किं बहनोक्तेन?, उपसंहारव्याजेन गुरुतरमनर्थसम्बन्धं दर्शयितुमाह-अणादियं इत्यादि, नास्यादिरस्तीत्यनादिः- संसारः,8 तदनेनेदमुक्तं भवति- यत्कैश्चिदभिहितं यथाऽयमण्डकादिक्रमेणोत्पादित इत्येतदपास्तम्, न विद्यतेऽवदग्रं- पर्यन्तो यस्य सोऽयमनवदग्रोऽपर्यन्त इत्यर्थः, तदनेनेदमुक्तं भवति- यदुक्तं कैश्चिद्यथा प्रलयकालेऽशेषसागरजलप्लावनं द्वादशादित्योद्गमेन चात्यन्तदाह इत्यादिकं सर्वं मिथ्येति, दीर्घ मित्यनन्तपुद्गलपरावर्तरूपकालावस्थानम्, तथा चत्वारोऽन्ता- गतयो यस्य स तथा, चातुर्गतिक इत्यर्थः, तत्संसार एव कान्तारः संसारकान्तारो, निर्जलः सभयस्त्राणरहितोऽरण्यप्रदेशः कान्तार इति। // 624 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy