________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 622 // श्रुतस्कन्धः२ द्वितीयमध्ययन क्रियास्थानम्, सूत्रम् 41 (676) अहिंसा प्रतिपादनम् गब्भवासभवपवंचकलंकलीभागिणो भविस्संति, ते बहूणं दंडणाणं बहूणं मुंडणाणंतजणाणंतालणाणं अंदुबंधणाणंजाव घोलणाणं माइमरणाणं पिइमरणाणं भाइमरणाणं भगिणीमरणाणं भज्जापुत्तधूतसुण्हामरणाणं दारिद्दाणं दोहग्गाणं अप्पियसंवासाणं पियविप्पओगाणं बहूणं दुक्खदोम्मणस्साणं आभागिणो भविस्संति, अणादियं च णं अणवयग्गं दीहमद्धं चाउरंतसंसारकतारं भुजो भुजो अणुपरियट्टिस्संति, तेणो सिझिस्संति णो बुझिस्संति जाव णो सव्वदुक्खाणं अंतं करिस्संति, एस तुला एस पमाणे एस समोसरणे पत्तेयं तुला पत्तेयं पमाणे पत्तेयं समोसरणे // तत्थणजे ते समणा माहणा एवमाइक्खंति जाव परूवेंति-सव्वे पाणा सवे भूया सव्वे जीवा सव्वे सत्ता ण हंतव्वा ण अज्जावेयव्वाण परिघेतव्वा ण उद्दवेयव्वा ते णो आगंतुछेयाए ते णो आगंतुभेयाए जाव जाइजरामरणजोणिजम्मणसंसारपुणब्भवगम्भवासभवपवंचकलंकलीभागिणो भविस्संति, ते णो बहूणं दंडणाणंजावणो बहूणं मुंडणाणं जाव बहूणं दुक्खदोम्मणस्साणं णो भागिणो भविस्संति, अणादियं च णं अणवयग्गंदीहमद्धं चाउरंतसंसारकंतारं भुजो भुजो णो अणुपरियट्टिस्संति, ते सिज्झिस्संति जाव सव्वदुक्खाणं अंतं करिस्संति // सूत्रम् 41 // ( // 676 // ) प्रवदनशीलाः प्रावादुकाः सर्वेऽपि ते त्रिषष्ट्युत्तरत्रिशतपरिमाणा अपि आदिकरा यथास्वं धर्माणाम्, येऽपि च तच्छिष्यास्तेऽपि सर्वे नाना-भिन्ना प्रज्ञा- ज्ञानं येषां ते नानाप्रज्ञाः, आदिकरा इत्यनेनेदमाह- स्वरुचिविरचितास्ते न त्वनादिप्रवाहायाताः, ननु चाहतानामपि आदित्वविशेषणमस्त्येव, सत्यमस्ति, किन्तु अनादिर्हेतुपरम्परेत्यनादित्वमेव, तेषांचसर्वज्ञप्रणीतागमानाश्रयणान्निबन्धनाभावः तदभावाच्च भिन्नं परिज्ञानम्, अत एव नानाछन्दाः, छन्दः- अभिप्रायः, भिन्नाभिप्राया इत्यर्थः, तथाहि- उत्पादव्ययध्रौव्यात्मके वस्तुनि सांख्यैरकान्तेनाविर्भावतिरोभावाश्रयणादन्वयिनमेव पदार्थं सत्यत्वेनाश्रित्य नित्यपक्षसमाश्रिताः, तथा शाक्या अत्यन्तक्षणिकेषु पूर्वोत्तरभिन्नेषु पदार्थेषु सत्सु स एवायमिति प्रत्यभिज्ञाप्रत्ययः सदृशापरा