________________ // 620 // श्रीसूत्रकृताङ्ग चोपादानक्षयादनागतानुत्पत्तेः संततिविच्छेद एव मोक्षः, प्रदीपस्येव तैलवयंभावे निर्वाणमिति, तथा चाहुः-न तस्य श्रुतस्कन्धः नियुक्तिकिश्चिद्भवति, न भवत्येव केवलं मिति / एतच्च तेषां महामोहविजृम्भितम्, यतः-कर्मचास्ति फलं चास्ति, कर्ता नैवास्ति कर्मणाम् / / द्वितीयमध्ययन श्रीशीला क्रियास्थानम्, वृत्तियुतम् संसारमोक्षवादित्वमहो ध्यान्ध्यविजृम्भितम् // 1 // इति / येषां चात्माऽस्ति सांख्यादीनां तेषां प्रकृतिविकारवियोगो मोक्षः, सूत्रम् 40 श्रुतस्कन्ध:२ क्षेत्रज्ञस्य पञ्चविंशतितत्त्वपरिज्ञानादेव विद्यमानैः प्रधानविकारैर्विमोचनंमोक्ष इति, तेषामप्येकान्तनित्यवादितया मोक्षाभावः। 363 एवमन्येऽपि नैयायिकवैशेषिकादयः संसाराभावमिच्छन्तोऽपिन मुच्यन्ते, सम्यग्दर्शनादिकस्योपायस्याभावाद्, इत्यभ्यूह्याह पाखण्डिनः यदि न तेषां मोक्षः कथं ते लोकस्योपास्या भवन्तीत्याशङ्कयाह- तेऽपि तीर्थका लपन्ति ब्रुवते, मोक्षं प्रति धर्मदेशनां विदधति, शृण्वन्तीति श्रावकाः हे श्रावका! एवं गृह्णीत यूयं यथाऽहं देशयामि, तथा तेऽपि धर्मश्रावयितारः सन्त एवं लपन्ति / भाषन्ते यथाऽनेनोपायेन स्वर्गमोक्षावाप्तिरिति तद्वचनं मिथ्यात्वोपहतबुद्धयोऽवितथमेव गृह्णन्ति, कूटपण्यदायिनां विपर्यस्तमतय इवेति / तदेवमादितीर्थिकास्तच्छिष्याश्च पारम्पर्येण मिथ्यादर्शनानुभावात्परान्प्रतारयन्ति, तेऽपि च तेषां प्रतीयन्ति, आहकथमेते प्रावादुका मिथ्यावादिनो भवन्तीति?, अत्रोच्यते, यतस्तेऽप्यहिंसां प्रतिपादयन्ति न च तां प्रधानमोक्षाङ्गभूतां सम्यगनुतिष्ठन्ति, कथं?, सांख्यानां तावज्ज्ञानादेव धर्मो न तेषामहिंसा प्राधान्येन व्यवस्थिता, किंतु पञ्च यमा इत्यादिको विशेष इति / तथा शाक्यानामपि दश कुशला धर्मपथा अहिंसापि तत्रोक्ता, न तु सैव गरीयसी धर्मसाधनत्वेन तैराश्रिता। वैशेषिकाणामपि अभिसेचनोपवासब्रह्मचर्यगुरुकुलवास(वान) प्रस्थदानयज्ञादिनक्षत्रमन्त्रकालनियमा दृष्टाः' तेषु चाभिषेI Oसंततिच्छेद (मु०)। ॐ ज्ञानसंतानस्य क्षणपरम्परकस्य वा। 0 ज्ञानं सन्तानान्त्यभागरूपं / 0 हेतुत्वापेक्षया तृतीया, हेतुत्वं च मोक्षस्य तदविनाभावित्वात् / 80 प्रस्थान० प्रस्थादन। // 620 //