________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:२ // 619 // 363 तंजहा-किरियावाईणं अकिरियावाईणं अन्नाणियवाईणं वेणइयवाईणं, तेऽवि परिनिव्वाणमाहंसु, तेऽवि मोक्खमाहंसुतेऽविलवंति, 8 श्रुतस्कन्धः२ सावगा! तेऽवि लवंति सावइत्तारो॥ सूत्रम् 40 // // 675 // ) द्वितीयमध्ययनं क्रियास्थानम्, एवमेव संक्षेपेण समनुगम्यमाना व्याख्यायमानाः सम्यगनुगृह्यमाणाः अनयोरेव धर्माधर्मस्थानयोरनुपतन्ति / किमिति?, यतो सूत्रम् 40 यदुपशान्तस्थानंतद्धर्मपक्षस्थानमनुपशान्तं चाधर्मपक्षस्थानमिति। तत्र च यदधर्मपाक्षिकं प्रथमस्थानंतत्रामूनि त्रीणि त्रिषष्ट्यधिकानि (675) प्रावादुकशतान्यन्तर्भवन्तीत्येवमाख्यातं पूर्वाचार्यैरिति / एतानि च सामान्येन दर्शयितुमाह-तंजहे त्यादि, तद्यथेत्युपदर्शनार्थः क्रियां-ज्ञानादिरहितामेकामेव स्वर्गापवर्गसाधनत्वेन वदितुंशीलं येषां ते क्रियावादिनः, तेच दीक्षात एव मोक्षंवदन्तीत्येवमादयो द्रष्टव्या इति, तेषां च बहवो भेदाः, तथा अक्रियां परलोकसाधनत्वेन वदितुं शीलं येषां ते तथा तेषामिति, तथा अज्ञानमेव श्रेयः इत्येवं वदितुं शीलं येषां ते भवन्त्यज्ञानवादिनस्तेषाम्, तथा विनय एव परलोकसाधने प्रधानं कारणं येषां ते तथा तेषामिति / अत्र च सर्वत्र षष्ठीबहुवचनेनेदमाह, तद्यथा-क्रियावादिनामशीत्युत्तरंशतं अक्रियावादिनाचतुरशीतिरज्ञानिकानां सप्तषष्टिवैनयिकानांद्वात्रिंशदिति / तत्र च सर्वेऽप्येते मौलास्तच्छिष्याश्च प्रवदनशीलत्वात्प्रावादुकाः, तेषां च भेदसंख्यापरि-2 ज्ञानोपाय आचार एवाभिहित इति नेह प्रतन्यते। ते सर्वेऽप्यार्हताइव परिनिर्वाण-अशेषद्वन्द्वोपरमरूपमवर्णगन्धरसस्पर्शस्वभाव-8 मनुपचरितपरमार्थस्थानं ब्रह्मपदाख्यमबाधात्मकं परमानन्दसुखस्वरूपमाहुः- उक्तवन्तः, तथा तेऽपि प्रावादुकाः संसारबन्धनान्मोचनात्मकं मोक्षमाहुः, पूर्वेण निरुपाधिकं कार्यमेव निर्वाणाख्यमुक्तम्, अनेन तु तदेव कारणोपाधिकमित्ययं विशेषः। तत्र येषामप्यात्मा नास्ति ज्ञानसन्ततिवादिनां तेषामपि कर्मसंततेः संसारनिबन्धनभूताया विच्छेदान्मोक्षभावाविरोधः, तेषांक O सम्यगनु० (मु०)। 0 शान्तस्थानमधर्मपक्षस्थान० (मु०)। 0 मिति, अज्ञान० (मु०)। // 619 //