SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 2 / / 617 // | श्रुतस्कन्धः 2 द्वितीयमध्ययन क्रियास्थानम्, सूत्रम् 39 (674) | अल्पेच्छादि गुणाः तिष्ठन्तीति / अचियत्तः- अनभिमतोऽन्तः पुरप्रवेशवत्परगृहद्वारप्रवेशोऽन्यतीर्थिकप्रवेशो येषां ते तथा,अनवरतं श्रमणानुद्युक्तविहारिणो निर्ग्रन्थान् प्रासुकेनैषणीयेनाशनादिना तथा पीठफलकशय्यासंस्तारकादिना च प्रतिलाभयन्तस्तथा बहूनि वर्षाणि शीलव्रतगुणव्रतप्रत्याख्यानपौषधोपवासैरात्मानं भावयन्तस्तिष्ठन्ति / तदेवं ते परमश्रावकाः प्रभूतकालमणुव्रतगुणव्रतशिक्षा व्रतानुष्ठायिनः साधूनामौषधवस्त्रपात्रादिनोपकारिणः सन्तो यथोक्तं यथाशक्ति सदनुष्ठानं विधायोत्पन्ने वा कारणेऽनुत्पन्ने वा भक्तं प्रत्याख्यायालोचितप्रतिक्रान्ताः समाधिप्राप्ताः सन्तः कालमासे कालं कृत्वाऽन्यतरेषु देवेषूत्पद्यन्त इति / एतानिचाभिगतजीवाजीवादिकानि पदानि हेतुहेतुमद्भावेन नेतव्यानि, तद्यथा- यस्मादभिगतजीवाजीवास्तस्मादुपलब्धपुण्यपापाः, यस्मादुपलब्धपुण्यपापास्तस्मादुच्छ्रितमनसः, एवमुत्तरत्रापि एकैकं पदं त्यजद्भिरेकैकं चोत्तरं गृह्णद्भिर्वाच्यम्, ते च परेण पृष्टा अपृष्टा वा एतदूचुः, तद्यथा- अयमेव मौनीन्द्रोक्तो मार्गः सदर्थः शेषस्त्वनर्थो, यस्मादेवं प्रतिपद्यन्ते तस्मात्ते समुच्छ्रितमनसः सन्तः साधुधर्म श्रावकधर्म च प्रकाशयन्तो विशेषेणैकादशोपासकप्रतिमाः स्पृशन्तो विहरन्तोऽष्टमीचतुर्दश्यादिषु पौषधोपवासादौ साधून प्रासुकेन प्रतिलाभयन्ति, पाश्चात्ये च काले संलिखितकायाः संस्तारकश्रमणभावं प्रतिपद्य भक्तं प्रत्याख्यायायुषः क्षये देवेषूत्पद्यन्ते। ततोऽपिच्युताः सुमानुषभावं प्रतिपद्य तेनैव भवेनोत्कृष्टतः सप्तस्वष्टसुवा भवेषु सिध्यन्तीति। तदेतत्स्थानं कल्याणपरम्परया सुखविपाकमितिकृत्वाऽऽर्यमिति / अयं विभङ्गस्तृतीयस्य स्थानस्य मिश्रकाख्यस्याख्यात इति // उक्ता धार्मिकाः, अधार्मिकास्तदुभयरूपाश्चाभिहिताः, साम्प्रतमेतदेवस्थानत्रिकमुपसंहारद्वारेणसंक्षेपतो बिभणिषुराह-येयमविरतिःअसंयमरूपा सम्यक्त्वाभावान्मिथ्यादृष्टेर्द्रव्यतो विरतिरप्यविरतिरेव तांप्रतीत्य-आश्रित्य बालवद्वाल:-अज्ञः सदसद्विवेकOर्मिकाश्च तदु (प्र०)।
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy