SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 616 // सूत्रम् 39 (674) गुणा: पर्यटन् यां यामभिरूपतरामङ्गनां पश्यति तां तामपहरति, ततः सर्वनागरै राज्ञे निवेदितं- यथा देव! प्रत्यहं पत्तनं मुष्यते / श्रुतस्कन्धः२ केनापि, नीयते सर्वसारमङ्गनाजनोऽपि, यस्तस्यानभिमतः सोऽत्र केवलमास्ते, तदेवं (द्देव!) क्रियतां प्रसादस्तदन्वेषणेनेति। द्वितीयमध्ययनं क्रियास्थानम्, राज्ञाऽभिहितं-गच्छत यूयं विश्रब्धा भवत अवश्यमहं तंदुरात्मानंलप्स्ये, किंच-यदि पञ्चषैरहोभिर्न लभे चौरं विमर्शयुक्तोऽपि च त्यक्ष्याम्यात्मानमहं ज्वालामालाकुले वह्नौ, तदेवं कृतप्रतिज्ञं राजानं प्रणम्य निर्गता नागरिकाः, राज्ञा च सविशेष अल्पेच्छादि नियुक्ता आरक्षकाः। आत्मनाऽप्येकाकीखगखेटकसमेतोऽन्वेष्टुमारब्धः,न चोपलभ्यते चौरः, ततो राज्ञा निपुणतरमन्वेषयता पञ्चमेऽहनि भोजनताम्बूलगन्धमाल्यादिकं गृह्णन् रात्रौ स्वतो निर्गतेनोपलब्धः स परिव्राट्, तत्पृष्ठगामिना नगरोद्यान-2 वृक्षकोटरप्रवेशेन गुहाभ्यन्तरं प्रविश्य व्यापादितः, तदनन्तरं समर्पितं यद्यस्य सत्कमङ्गनाजनोऽपीति / तत्र चैका सीमन्तिनी अत्यन्तमौषधिभिर्भाविता नेच्छत्यात्मीयमपि भर्तारम्, ततस्तद्विद्भिरभिहितं- यथाऽस्याः परिव्राट्सत्कान्यस्थीनि दुग्धेन सह संघृष्य यदि दीयन्ते तदेयं तदाग्रहं मुञ्चति, ततस्तत्स्वजनैरेवमेव कृतम्, यथा यथा चासौ तदस्थ्यभ्यवहारं विधत्ते तथा / तथा तत्स्नेहानुबन्धोऽपैति, सर्वास्थिपाने चापगतः प्रेमानुबन्धः, तदनुरक्ता निजे भर्तरि / तेदवं यथाऽसावत्यन्तंभाविता तेन / परिव्राजानेच्छत्यपरंएवं श्रावकजनोऽपि नितरांभावितात्मा मौनीन्द्रशासेन न शक्यते अन्यथाकर्तुम्, अत्यन्तंसम्यक्त्वौषधेन। वासितत्वादिति। पुनरपि श्रावका विशिनष्टि- जाव उसियफलिहा इत्यादि, उच्छ्रितानि स्फटिकानीव स्फटिकानि-अन्त:करणानि येषां ते तथा, एतदुक्तं भवति-सद्दर्शनलाभे न कस्यचिद् बिभ्यति, शोभनमार्गपरिग्रहेणोद्घाटितशिरसो विश्रब्धं (r) नागरकाः (प्र०)। 0 सने न (मु०)। 0 मौनीन्द्रदर्शनावाप्तौ सत्यां परितुष्टमानसा इति, तथा अप्रावृतानि द्वाराणि यैस्ते तथा, उद्घाटितगृहद्वारास्तिष्ठन्ति अचियत्तः (मु०)। // 616 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy