SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 615 // विरयाविरई एस ठाणे आरंभणोआरंभट्ठाणे एस ठाणे आरिए जाव सव्वदुक्खप्पहीणमग्गे एगंतसम्म साहू।सूत्रम् 39 // // 674 // ) श्रुतस्कन्ध:२ * अथापरस्य तृतीयस्य स्थानस्य मिश्रकाख्यस्य विभङ्गः समाख्यायते- एतच्च यद्यपि मिश्रुत्वाद्धर्माधर्माभ्यामुपपेतं तथापि द्वितीयमध्ययनं क्रियास्थानम्, धर्मभूयिष्ठत्वाद्धार्मिकपक्ष एवावतरति, तद्यथा-बहुषु गुणेषु मध्यपतितो दोषो नात्मानं लभते, कलङ्कइव चन्द्रिकायाः,तथा सूत्रम् 39 बहूदकमध्यपतितो मृच्छकलावयवो नोदकं कलुषयितुमलम्, एवमधर्मोऽपि धर्ममिति स्थितं धार्मिकपक्ष एवायम् / इह (674) अल्पेच्छादि अस्मिन् जगति प्राच्यादिषु दिक्षु एके केचन शुभकर्माणो मनुष्या भवन्तीति, तद्यथा- अल्पा- स्तोका परिग्रहारम्भेष्विच्छा गुणाः अन्तःकरणप्रवृत्तिर्येषां ते तथा एवंभूता धार्मिकवृत्तयः प्रायः सुशीलाः सुव्रताः सुप्रत्यानन्दाः साधवो भवन्तीति / ते चैकस्मात्स्थूलात्संकल्पकृतात् प्रतिनिवृत्ता एकस्माच्च सूक्ष्मादारम्भजादप्रतिनिवृत्ता एवं शेषाण्यपिव्रतानि संयोज्यानीति। एवमन्यस्मादपि सामान्येन निवृत्ता इत्यतिदिशन्नाह-जे यावण्णे इत्यादि, ये चान्ये सावद्या नरकादिगमनहेतवः कर्मसमारम्भास्तेभ्य एकस्माद्यन्त्रपीलननिर्लाञ्छनकृषीवलादेर्निवृत्ता एकस्माच्च क्रयविक्रयादेरनिवृत्ता इति // तांश्च विशेषतो दर्शयितुमाह-विशिष्टोपदेशार्थं श्रमणानुपासते- सेवन्त इति श्रमणोपासकाः, ते च श्रमणोपासनतोऽभिगतजीवाजीवस्वभावाः तथोपलब्धमपुण्यपापाः / इह च. प्रायः सूत्रादर्शेषु नानाविधानि सूत्राणि दृश्यन्तेन च टीकासंवाद्येकोऽप्यस्माभिरादर्शः समुपलब्धोऽत एकमादर्शमङ्गीकृत्यास्माभिर्विवरणं क्रियते इत्येतदवगम्य सूत्रविसंवाददर्शनाच्चित्तव्यामोहोन विधेय इति। ते श्रावकाः परिज्ञातबन्धमोक्षस्वरूपाः सन्तो न धर्माच्च्याव्यन्ते मेरुरिव निष्प्रकम्पा दृढमाईते दर्शनेऽनुरक्ताः। अत्र चार्थे सुखप्रतिपत्त्यर्थं दृष्टान्तभूतं कथानकम्, // 615 // / तच्चेदं- तद्यथा- राजगृहे नगरे कश्चिदेकः परिव्राट् विद्यामन्त्रौषधिलब्धसामर्थ्यः परिवसति, स च विद्यादिबलेन पत्तने (r) तथैकस्मात् (मु०)। (c) एतस्मादपि (मु०)। 0 ०पीडन० (मु०)।
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy