SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 608 // करचरणच्छेदनादिषु अयशोभाग्भवतीति, स एवंभूतः पुरुषः कालमासे स्वायुषः क्षये कालं कृत्वा पृथिव्याः-रत्नप्रभादिकाया श्रुतस्कन्धः 2 स्तलं अतिवर्त्य योजनसहस्रपरिमाणमतिलङ्घय नरकतलप्रतिष्ठानोऽसौ भवति // 35 // 670 / / नरकस्वरूपनिरूपणायाह द्वितीयमध्ययनं क्रियास्थानम्, तेणं णरगा अंतो वट्टा बाहिं चउरंसा अहे खुरप्पसंठाणसंठिया णिचंधकारतमसा ववगयगहचंदसूरनक्खत्तजोइसप्पहा मेदवसा सूत्रम् 36 मंसरुहिरपूयपडलचिक्खिल्ललित्ताणुलेवणतला असुईवीसा परमदुन्भिगंधा कण्हा अगणिवन्नाभा कक्खडफासा दुरहियासा असुभा (671) नरकस्वरूपम् णरगा असुभा णरएसुवेयणाओ॥णो चेवणरएसुनेरइया णिद्दायंति वा पयलायंति वा सुइंवा रतिं वा धितिं वा मतिं वा उवलभंते, तेणं तत्थ उज्जलं विउलं पगाढं कडुयं कक्कसंचंडं दुक्खं दुग्गं तिव्वं दुरहियासंणेरड्या वेयणं पच्चणुभवमाणा विहरंति // सूत्रम् 36 // ( // 671 // ) णमिति वाक्यालङ्कारे ते नरकाः सीमन्तकादिका बाहुल्यमङ्गीकृत्यान्तः- मध्ये वृत्ता बहिरपि चतुरस्रा अधश्च क्षुरप्रसंस्थानसंस्थिताः, एतच्च संस्थानं पुष्पावकीर्णानाश्रित्योक्तम्, तेषामेव प्रचुरत्वात्, आवलिकाप्रविष्टास्तु वृत्तत्र्यनचतुरस्रसंस्थाना एव भवन्ति, तथा नित्यमेवान्धतमसं येषु ते नित्यान्धतमसाः, क्वचित्पाठो नित्यान्धकारतमसा इति, मेघावच्छन्नाम्बरतलकृष्णपक्षरजनीवत् तमोबहुलाः, तथा व्यपगतो ग्रहचन्द्रसूर्यनक्षत्रज्योतिःपथो येषां ते तथा / पुनरप्यनिष्टापादनार्थं तेषामेव विशेषणान्याह- मेदवसे त्यादि,स दुष्कृतकर्मकारिणां ते नरकास्तहुः खोत्पादनायैवंभूता भवन्ति, तद्यथा- मेदवसामांसरुधिरपूयादीनां पटलानि- सङ्कास्तैर्लिप्तानि-पिच्छिलीकृतान्यनुलेपनतलानि- अनुलेपनप्रधानानि तलानि येषांते तथा, अशुचयो विष्ठाऽ S-3 // 608 // सृक्क्लेदप्रधानत्वाद् अत एव विश्राः कुथितमांसादिकल्पकर्दमविलिप्तत्वात्, एवं परमदुर्गन्धाः कुथितगोमायुकलेवरादपि * कर्दमावलिप्त (मु०)।
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy