________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 609 // श्रुतस्कन्धः२ द्वितीयमध्ययनं क्रियास्थानम्, सूत्रम् 37 (672) दुर्लभबोधिता असह्यगन्धाः, तथा कृष्णाग्निवर्णाभा रूपतः स्पर्शतस्तु कर्कशः- कठिनो वज्रकण्टकादप्यधिकतरः स्पर्शो येषां ते तथा, किं बहुना?, अतीव दुःखेनाधिसह्यन्ते, किमिति?, यतस्ते नरकाः पञ्चानामपीन्द्रियार्थानामशोभनत्वादशुभाः, तत्र च सत्त्वानामशुभकर्मकारिणामुग्रदण्डपातिनां च वज्रप्रचुराणांतीव्रा अतिदुःसहवेदनाः शरीराः प्रादुर्भवन्ति, तया च वेदनयाऽभिभूतास्तेषु नरकेषु ते नारका नैवाक्षिनिमेषमपि कालं निद्रायन्ते, नाप्युपविष्टाद्यवस्था अक्षिसंकोचनरूपामीषन्निद्रामवाप्नुवन्ति, न ह्येवंभूतवेदनाभिभूतस्य निद्रालाभो भवतीति दर्शयति, तामुज्वलांतीव्रानुभावनोत्कटामित्यादिविशेषणविशिष्टंयावद्वेदयन्तिअनुभवन्तीति // 36 // 671 // अयं तावदयोगोलकपाषाणदृष्टान्तः शीघ्रमधोनिमज्जनार्थप्रतिपादकः प्रदर्शितः, अधुना शीघ्रपातार्थप्रतिपादकमेवापरं दृष्टान्तमधिकृत्याह से जहाणामए रुक्खे सिया पव्वयग्गे जाए मूले छिन्ने अग्गे गरुए जओ णिण्णं जओ विसमंजओ दुग्गंतओ पवडति, एवामेव तहप्पगारे पुरिसजाए गब्भातो गब्भं जम्मातो जम्मं माराओमारंणरगाओणरगंदुक्खाओ दुक्खं दाहिणगामिए णेरइए कण्हपक्खिए आगमिस्साणं दुल्लभबोहिए यावि भवइ, एस ठाणे अणारिए अकेवले जाव असव्वदुक्खपहीणमग्गे एगंतमिच्छे असाहू पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिए।सूत्रम् 37 / / 672 // तद्यथा नाम कश्चिद्वृक्षः पर्वताये जातो मूले छिन्नःशीघ्रं यथा निम्न पतति, एवमसावप्यसाधुकर्मकारी तत्कर्मवातेरितःशीघ्रमेव नरके पतति, ततोऽप्युद्वृत्तो गर्भाद्गर्भमवश्यं याति न तस्य किंचित्राणं भवति, यावदागामिन्यपि कालेऽसौ दुर्लभधर्मप्रतिपत्तिर्भवतीति // 37 // 672 / / साम्प्रतमुपसंहरति- एस ठाणे इत्यादि, तदेतत्स्थानमनार्य पापानुष्ठानपरत्वाद्यावदेकान्तमिथ्या O निम्ने (मु०)।