SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 | / / 607 // च-शब्दादिषु इच्छाकामेषु मूर्च्छिता गृद्धा ग्रथिता अध्युपपन्नाः, एते च शक्रपुरन्दरादिवत्पर्यायाः कथञ्चिद्भेदं वाऽऽश्रित्य : श्रुतस्कन्धः२ व्याख्येयाः, ते च भोगासक्ता व्यपगतपरलोकाध्यवसाया यावद्वर्षाणि चतुःपञ्च षट् सप्त वा दश वाऽल्पतरं वा कालं प्रभूततरं वा द्वितीयमध्ययन क्रियास्थानम्, कालं भुक्त्वा भोगभोगान् इन्द्रियानुकूलान् मधुमद्यमांसपरदारासेवनरूपान् भोगासक्ततया च परपीडोत्पादनतो वैरायतनानि सूत्रम् 35 वैरानुबन्धान अनुप्रसूय- उत्पाद्य विधाय तथा संचयित्वा संचिन्त्योपचित्य बहूनि प्रभूततरकालस्थितिकानि क्रूराणि क्रूरविपा-8 (670) आरम्भादिकानि नरकादिषु यातनास्थानेषु क्रकचपाटनशाल्मल्यवरोहणतप्तत्रपुपानात्मकानि कर्माण्यष्टप्रकाराणि बद्धस्पृष्टनिधत्त मन्तो निकाचनावस्थानि विधाय तेन च संभारकृतेन कर्मणा प्रेर्यमाणास्तत्कर्मगुरवो वा नरकतलप्रतिष्ठाना भवन्तीत्युत्तरक्रिययाऽऽ नरकगामिनः पादितबहुवचनरूपयेति सम्बन्धः / अस्मिन्नेवार्थे सर्वलोकप्रतीतं दृष्टान्तमाह-से जहाणामए इत्यादि, तद्यथा नामायोगोलकःअयस्पिण्डः शिलागोलको वृत्ताश्मशकलं वोदके प्रक्षिप्तः समानः सलिलतलमतिवर्त्य- अतिलङ्याधो धरणीतलप्रतिष्ठानो भवति / / अधुना दार्टान्तिकमाह- एवमेवे त्यादि, यथाऽसावयोगोलको वृत्तत्वाच्छीघ्रमेवाधो यात्येवमेव तथाप्रकार: पुरुषजातः, तमेव लेशतो दर्शयति- वज्रवद्वजं गुरुत्वात्कर्म तद्बहुलः- तत्प्रचुरो बध्यमानककर्मगुरुरित्यर्थः, तथा धूयत इति धून- प्राग्बद्धं कर्म तत्प्रचुरः, पुनः सामान्येनाह- पङ्कयतीति पढूं- पापं तद्बहुलः, तदेव कारणतो दर्शयितुमाह-वैरबहुलो वैरानुबन्धप्रचुरः, तथा अपत्तियं ति मनसो दुष्प्रणिधानं तत्प्रधानः, तथा दम्भो- मायया परवञ्चनं तदुत्कटः, तथा निकृतिः-माया वेषभाषापरावृत्तिच्छद्मना परद्रोहबुद्धिस्तन्मयः, तथा सातिबहुल इति सातिशयेन द्रव्येणापरस्य हीनगुणस्य द्रव्यस्य संयोगः सातिस्तद्बहुल:तत्करणप्रचुरः, तथा अयशः-अश्लाघा असद्वृत्ततया निन्दा, यानि यानिपरापकारभूतानि कर्मानुष्ठानानि विधत्ते तेषु तेषु कर्मसु / धूतं (मु०)। // 607 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy