________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 606 // सूत्रम् 35 मन्तो ये कलममसूरतिलमुद्गादिषु पचनपाचनादिकया क्रियया स्वपरार्थमयता- अप्रयत्नवन्तो निष्कृपाः क्रूरा मिथ्यादण्डं प्रयुञ्जन्ति, श्रुतस्कन्धः२ मिथ्यैव- अनपराधिष्वेव दोषमारोप्य दण्डो मिथ्यादण्डस्तं विदधति, तथैवमेव-प्रयोजनं विनैव तथाप्रकाराः पुरुषा निष्करुणा द्वितीयमध्ययन क्रियास्थानम्, जीवोपघातनिरतास्तित्तिरवर्तकलावकादिषु जीवनप्रियेषु प्राणिष्वयताः क्रूरकर्माणो मिथ्यादण्डं प्रयुञ्जन्ति / तेषां च क्रूरधियां यथा राजा तथा प्रजाइति प्रवादात् परिवारोऽपि तथाभूत एव भवतीति तथा दर्शयितुमाह- जावि य से इत्यादि, याऽपि च तेषां। (670) आरम्भादिबाह्या पर्षद्भवति, तद्यथा- दासः स्वदासीसुतः प्रेष्यः प्रेषणयोग्यो भृत्यदेश्यो भृतको वेतनेनोदकाद्यानयनविधायी तथा भागिको यः षष्ठांशादिलाभेन कृष्यादौ व्याप्रियते कर्मकरः प्रतीतः तथा नायकाश्रितः कश्चिद्भोगपरः, तदेवं ते दासादयोऽन्यस्य नरकगामिनः लघावप्यपराधे गुरुतरं दण्डं प्रयञ्जन्ति प्रयोजयन्ति च / स च नायकस्तेषां दासादीनां बाह्यपर्षद्भुतानामन्यतरस्मिंस्तथा लघावप्यपराधे- शब्दाश्रवणादिके गुरुतरं दण्डं वक्ष्यमाणं प्रयुङ्क्ते, तद्यथा- इमं दासं प्रेष्यादिकं वा सर्वस्वापहारेण दण्डयत यूयमित्यादि सूत्रसिद्धं यावदिममन्यतरेणाशुभेन कुत्सितमारेण व्यापादयत यूयम् // याऽपिच क्रूरकर्मवतामभ्यन्तरा पर्षद्भवति, तद्यथा- मातापित्रादिका, मित्रदोषप्रत्ययिकक्रियास्थानवद् नेयं यावदहितोऽयमस्मिन् लोके इति, तथा हि आत्मनोऽपथ्यकारी। परस्मिन्नपि लोके, तदेवं ते मातापित्रादीनां स्वल्पापराधिनामपि गुरुतरदण्डापादनतो दुःखमुत्पादयन्ति, तथा नानाविधैरुपायैस्तेषां शोकमुत्पादयन्ति- शोकयन्तीत्येवं ते प्राणिनां बहुप्रकारपीडोत्पादकाः यावद्वधबन्धपरिक्लेशादप्रतिविरता भवन्ति॥ ते च विषयासक्ततया एतत्कुर्वन्तीत्येतद्दर्शयितुमाह- एवमेव पूर्वोक्तस्वभावा एवं ते निष्कृपा निरनुक्रोशा बाह्याभ्यन्तरपर्षदोरपि। // 606 // कर्णनासावकर्तनादिना दण्डपातनस्वभावाः स्त्रीप्रधानाः कामाः स्त्रीकामाः यदिवा स्त्रीषु- मदनकामविषयभूतासु कामेषु / 0 साविकर्त० (मु०)।