________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः | // 605 // सर्वग्रहणम्, एवं सर्वस्मादपि कूटसाक्ष्यादेरप्रतिविरता इति, तथा सर्वस्मात्स्त्रीबालादेः परद्रव्यापहरणादविरताः, तथा श्रुतस्कन्धः२ सर्वस्मात्परस्त्रीगमनादेमैथुनादविरताः, एवं सर्वस्मात्परिग्रहाद्योनिपोषकादप्यविरताः, एवं सर्वेभ्यः क्रोधमानमायालोभेभ्योऽविरताः, द्वितीयमध्ययन क्रियास्थानम्, यथा प्रेमद्वेषकलहाभ्याख्यानपैशुन्यपरपरिवादारतिरतिमायामृषावादमिथ्यादर्शनशल्यादिभ्योऽसदनुष्ठानेभ्यो यावज्जीवयाऽ-2 सूत्रम् 35 प्रतिविरता भवन्तीति / तथा सर्वस्मात्स्नानोन्मर्दनवर्णकविलेपनशब्दस्पर्शरूपरसगन्धमाल्यालङ्कारात्कामाङ्गान्मोहजनितादप्रतिविरता (670) आरम्भादियावज्जीवयेति, इह च वर्णकग्रहणेन वर्णविशेषापादकं लोध्रादिकं गृह्यते, तथा सर्वतः शकटरथादेर्यानविशेषादिकात्प्रविस्तरविधेः / मन्तो परिकररूपात्परिग्रहादप्रतिविरताः, इह च शकटरथादिकमेव यानं शकटरथयानम्, युग्य- पुरुषोत्क्षिप्तमाकाशयानं गिल्लि त्ति छ। नरकगामिनः पुरुषद्वयोत्क्षिप्ता झोल्लिका थिल्लि त्ति वेगसरादिद्वयविनिर्मितो यानविशेषः तथा संदमाणिय त्ति शिबिकाविशेष एव, तदेवमन्यस्मादपि वस्त्रादेः परिग्रहादुपकरणभूतादविरताः, तथा सर्वतः- सर्वस्मात्क्रयविक्रयाभ्यां करणभूताभ्यां यो माषकार्धमाषकरूपकर्षापणादिभिः पण्यविनिमयात्मकः संव्यवहारस्तस्मादविरता यावज्जीवयेति, तथा सर्वस्माद्धिरण्यसुवर्णादेः प्रधानपरिग्रहादविरताः, तथा कूटतुलकूटमानादेरविरताः, तथा सर्वतः कृषिपाशुपाल्यादेर्यत्स्वतः करणमन्येन च यत्किञ्चित्कारयति तस्मादविरताः, तथा पचनपाचनतः तथा कण्डनकुट्टनपिट्टनतर्जनताडनवधबन्धादिना यः परिक्लेशः प्राणिनां तस्मादविरताः, साम्प्रतमुपसंहरतिये चान्ये तथाप्रकाराः परपीडाकारिणः सावधाः कर्मसमारम्भा अबोधिका:- बोद्ध्यभावकारिणः तथा परप्राणपरितापनकरागोग्राहबन्दिग्रहग्रामघातात्मका येऽनायैः क्रूरकर्मभिः क्रियन्ते ततोऽप्रतिविरता यावज्जीवयेति ॥पुनरन्यथा बहुप्रकारमधार्मिकपदं प्रतिपिपादयिषुराह- 'तद्यथे' त्युपप्रदर्शनार्थो नामशब्दःसंभावनायाम्, संभाव्यते अस्मिन्विचित्रे संसारे केचनैवंभूताः पुरुषाः ®यावज्जीवं येऽप्रतिविरता (मु०)। 7 प्रतिविस्तर (मु०)। 0 वेगसराद्वय (मु०)। 0 रूपकार्षा (मु०)। // 605