________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 604 // क्रियास्थानम् सूत्रम् 35 नरकगामिनः वञ्चनया वञ्चितः माया-वञ्चनबुद्धिः प्रायो वणिजामिव निकृतिस्तु बकवृत्त्या कुर्कुटादिकरणेन दम्भप्रधानवणिक्श्रोत्रिय- श्रुतस्कन्धः 2 साध्वाकारेण परवञ्चनार्थं गलकर्तकानामिवावस्थानम्, देशभाषानेपथ्यादिविपर्ययकरणं कपटं यथा आषाढभूतिना द्वितीयमध्ययन नटेनेवापरापरवेषपरावृत्त्याऽऽचार्योपाध्यायसंघाटकात्मार्थं चत्वारो मोदका अवाप्ताः, कूटं तु- कार्षापणतुलाप्रस्थादेः। परवञ्चनार्थं न्यूनाधिककरणम्, एतैरुत्कुञ्चनादिभिःसहातिशयेन संप्रयोगो यदिवा-सातिशयेन द्रव्येण-कस्तूरिकादिनाऽपरस्य / (670) आरम्भादिद्रव्यस्य संप्रयोगः सातिसंप्रयोगस्तद्बहुला:- तत्प्रधाना इत्यर्थः, उक्तंच- सो होइ सातिजोगो दव्वं जंछादियण्णदव्वेसु / दोसगुणा मन्तो वयणेसु य अत्थविसंवायणं कुणइ॥१॥ एते चोत्कुञ्चनादयौँ मायापर्याया इन्द्रशक्रादिवत् कथञ्चित्क्रियाभेदेऽपि द्रष्टव्याः। तथा दुष्टं शीलं येषां ते दुःशीला:- चिरमुपचरिता अपि क्षिप्रं विसंवदन्ति, दुःखानुनेयाँ दारुणस्वभावा इत्यर्थः, तथा दुष्टानि व्रतानि येषां ते तथा यथा मांसभक्षणव्रतकालसमाप्तौ प्रभूततरसत्त्वोपघातेन मांसप्रदानम्, अन्यदपि नक्तभोजनादिकं तेषांक दुष्टव्रतमिति, तथाऽन्यस्मिन् जन्मान्तरे मधुमद्यमांसादिकमभ्यवहरिष्यामीत्येवमज्ञानान्धा जन्मान्तरविधिद्वारेण सनिदानमेव व्रतं गृह्णन्ति, तथा दुःखेन प्रत्यानन्द्यन्ते दुष्प्रत्यानन्द्याः, इदमुक्तं भवति-तैरानन्दितेनापरेण केनचित्प्रत्युपकारेप्सुना गर्वाध्माता दुःखेन प्रत्यानन्द्यन्ते, यदिवा सत्यप्युपकारे प्रत्युपकारभीरवो नैवानन्द्यन्ते प्रत्युत शठतयोपकारे दोषमेवोत्पादयन्ति, तथा 1 चोक्तं- प्रतिकर्तुमशक्तिष्ठा, नराः पूर्वोपकारिणाम् / दोषमुत्पाद्य गच्छन्ति, मद्नामिव वायसाः॥१॥यत एवमतोऽसाधवस्ते पापकर्मकारित्वात्,तथा यावज्जीवं यावत्प्राणधारणेन सर्वस्मात्प्राणातिपातादप्रतिविरता लोकनिन्दनीयादपि ब्राह्मणघातादेरविरता इति 0 रुत्कञ्चना - (प्र०)। (c) स भवति सातियोगो द्रव्यं यच्छादयित्वाऽन्यद्रव्यैः दोषगुणांश्च वचनैरर्थविसंवादनं करोति // 1 // ००चोत्कश्चादयो (प्र०)IOR 8 दु:खानुमेया (मु०)। // 604 //