SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः // 603 // आरम्भादि अथापरोऽन्यः प्रथमस्य स्थानस्याधर्मपाक्षिकस्य विभङ्गो विभाग: स्वरूपं व्याख्यायतें - इह खलु इत्यादि, सुगम यावन्मनुष्या श्रुतस्कन्धः२ एवंस्वभावा भवन्तीति // एते च प्रायो गृहस्था एव भवन्तीत्याह- महेच्छा इत्यादि, महती- राज्यविभवपरिवारादिका द्वितीयमध्ययनं क्रियास्थानम्, सर्वातिशायिनी इच्छा- अन्तःकरणप्रवृत्तिर्येषां ते महेच्छाः, तथा महानारम्भो- वाहनोष्ट्रमण्डलिकागन्त्रीप्रवाहकृषिषण्ड सूत्रम् 35 पोषणादिको येषां ते महारम्भाः, ये चैवंभूतास्ते महापिरग्रहाः- धनधान्यद्विपदचतुष्पदवास्तुक्षेत्रादिपरिग्रहवन्तः क्वचिदप्य- (670) निवृत्ताः, अत एवाधर्मेण चरन्तीत्याधर्मिकाः, तथा अधर्मिष्ठा निस्त्रिंशकर्मकारित्वादधर्मबहुलाः, ततश्चाधर्मे कर्तव्ये अनुज्ञा मन्तो अनुमोदनं येषां ते भवन्त्यधर्मानुज्ञाः, एवमधर्मं आख्यातुंशीलं येषां ते तथा, एवमधर्मप्रायजीविनः, तथा अधर्ममेव प्रविलोकयितुं नरकगामिनः शीलं येषां ते भवन्त्यधर्मप्रविलोकिनः, तथा अधर्मप्रायेषु कर्मसु प्रकर्षेण रज्यन्त इति अधर्मप्ररक्ताः, रलयोरैक्यमिति रस्य। स्थाने लकारोऽत्र कृत इति, तथाऽधर्मशीला अधर्मस्वभावाः तथाऽधर्मात्मकः समुदाचारो- यत्किञ्चनानुष्ठानं येषां ते भवन्त्यधर्मशीलसमुदाचाराः, तथाऽधर्मेण-पापेन सावद्यानुष्ठानेनैवदहनाङ्कननिर्लाञ्छनादिकेन कर्मणा वृत्तिः- वर्तनं कल्पयन्तः कुर्वाणा विहरन्ती ति कालमतिवाहयन्ति ॥पापानुष्ठानमेव लेशतो दर्शयितुमाह- हण छिन्द भिन्दे त्यादि स्वत एव हनना क्रियाः कुर्वाणा अपरेषामप्येवमात्मकमुपदेशं ददति, तत्र हननं दण्डादिभिस्तत्कारयन्ति तथा छिन्द कर्णादिकं भिन्द शूलादिना, विकर्तकाः- प्राणिनामजिनापनेतारः अत एव लोहितपाणयः, तथा चण्डा रौद्रा- निस्त्रिंशाः क्षुद्राः क्षुद्रकर्मकारित्वात् तथा साहसिका असमीक्षितकारिणः, तथा उत्कुञ्चनवञ्चनमायानिकृतिकूटकपटादिभिः सहातिसंप्रयोगोगायं तेन बहुलाः- तत्प्रचु // 603 // रास्ते तथा, तत्रोचं कुञ्चनं-शूलाधारोपणार्थमुत्कुञ्चनं वञ्चनं- प्रतारणं तत् यथा अभयकुमारः प्रद्योतगणिकाभिर्धार्मिक O विभाग मा(आ)ख्यायते (प्र०)। 0 छिद्धि कर्णादिकं भिन्द्धि (मु०)। 0 उत्कञ्चनं /
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy