________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः२ // 599 // यतस्तद्भवत्यत एवासाधु असद्वृत्तत्वात्, न ह्ययं सत्पुरुषसेवितः पन्था येन विषयातःप्रवर्तन्त इति। तदयं प्रथमस्य स्थानस्याधर्म- श्रुतस्कन्धः 2 पाक्षिकस्य पापोपादानभूतस्य विभङ्गो-विभागो विशेषः स्वरूपमितियावत् // 32 // 667 ॥साम्प्रतं द्वितीयं धर्मोपादानभूतं द्वितीयमध्ययनं क्रियास्थानम्, पक्षमाश्रित्याह सूत्रम् 33 ___अहावरे दोच्चस्स ट्ठाणस्स धम्मपक्खस्स विभंगे एवमाहिज्जइ, इह खलु पाईणं वा पडीणं वा उदीणं वा दाहिणं वा संतेगइया (668) श्रमणानां मणुस्सा भवंति, तंजहा-आयरिया वेगे अणारिया वेगे उच्चागोया वेगेणीयागोया वेगे कायमंता वेगे हस्समंता वेगे सुवन्ना वेगे दुवन्ना धर्मस्थानम् वेगे सुरूवा वेगे दुरूवा वेगे, तेसिं च णं खेत्तवत्थूणि परिग्गहियाई भवंति, एसो आलावगो जहा पोंडरीए तहा णेतव्वो, तेणेव अभिलावेण जाव सव्वोवसंता सव्वत्ताए परिनिव्वुडेत्तिबेमि // एस ठाणे आरिए केवले जाव सव्वदुक्खप्पहीणमग्गे एगंतसम्मे साहु, दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिए॥सूत्रम् 33 // ( // 668 // ) अथेत्यधर्मपाक्षिकस्थानादनन्तरमयमपरो द्वितीयस्य स्थानस्य धर्मपाक्षिकस्य पुण्योपादानभूतस्य विभङ्गो विभागः स्वरूपं समाधीयते- सम्यगाख्यायते, तद्यथा- प्राचीनं प्रतीचीनमुदीचीनं दक्षिणं वा दिग्विभागमाश्रित्य सन्ति विद्यन्ते एके केचन कल्याणपरम्पराभाजः पुरुषा मनुष्याः, तेच वक्ष्यमाणस्वभावा भवन्ति, तद्यथे त्ययमुपप्रदर्शनार्थः, आर्या एके केचनार्यदेशो-8 त्पन्नाः, तथाऽनार्याः शकयवनशबरबर्बरादय इत्याद्येवं यथा पौण्डरीकाध्ययने तथेहापि सर्वं निरवयवं भणितव्यं यावत्ते एवं पूर्वोक्तेन प्रकारेण सर्वेभ्यः पापस्थानेभ्य उपशान्ताः, तथा अत एव सर्वात्मतया परिनिर्वृता इत्यहमेवं ब्रवीमि // तदेवमेतत्स्थानं कैवलिक प्रतिपूर्णं नैयायिकमित्यादि प्राग्वद्विपर्ययेण नेयं यावद्द्वितीयस्य स्थानस्य धार्मिकस्यैषः विभङ्गो विभागः स्वरूपमा 0 विषयान्धाः (मु०)। (r) केवलिकं (मु०)। // 599 //