________________ श्रीसूत्रकृताङ्गं नियुक्ति श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ / / 598 // परलोकनिस्पृहमतेः साधुप्रद्वेषिणो दानान्तरायविधायिनो दिगादिकमशस्तं दर्शितम्,अन्यदपि यदशस्तं तिर्यग्गत्यादिकम श्रुतस्कन्धः२ बोधिलाभादिकं च तद्योजनीयमस्येति / एतद्विपरीतस्य तु विषयनिःस्पृहस्य इन्द्रियाननुकूलस्य परलोकभीरोः साधुप्रशंसावतः द्वितीयमध्ययनं क्रियास्थानम्, सदनुष्ठानरतस्यादक्षिणगामुकत्वंसुदेवत्वंशुक्लपाक्षिकत्वंतथा सुमानुषत्वायातस्य सुलभबोधित्वमित्येवमादिकंसद्धर्मानुष्ठा सूत्रम् 32 यिनः सर्वं भवतीति // साम्प्रतमुपसंजिघृक्षुराह- इत्येतस्य पूर्वोक्तस्य स्थानस्य ऐश्वर्यलक्षणस्य शृङ्गारमूलस्य सांसारिकस्य (667) अधर्मसेवनम् परित्यागबुद्ध्या एके केचन विपर्यस्तमतयः पाण्डिकोत्थानेनोत्थिताः परमार्थमजानाना अभिगिज्झंति त्ति आभिमुख्येन लुभ्यन्ते लोभवशगा भवन्तीत्यर्थः / तथा एके केचन साम्प्रतक्षिणस्तस्मात्स्थानादनुपस्थिता गृहस्था एव सन्तः अभिझंझ त्ति झञ्झा-तृष्णा तदातुराः सन्तोऽर्थेष्वत्यर्थ लुभ्यन्ते, यत एवमतोऽदः स्थानमनार्यानुष्ठानपरत्वादनार्य महापुरुषानुचीर्णं न भवति, तथा न विद्यते केवलमस्मिन्नित्यकेवलं-अशुद्धमित्यर्थः, तथेतरपुरुषाचीर्णत्वादपरिपूर्ण सद्गुणविरहात्तुच्छमित्यर्थः, तथा न्यायेन चरति नैयायिकंन नैयायिकमनैयायिक-असन्यायवृत्तिकमित्यर्थः, तथा रगेलगे संवरणे शोभनं लगनं-संवरणं इन्द्रियसंयमरूपं सल्लगस्तद्भावः सल्लगत्वं न विद्यते सल्लगत्वमस्मिन्नित्यसल्लगत्वं इन्द्रियासंवरणरूपमित्यर्थः, यदिवा शल्यवच्छल्यंमायानुष्ठानमकार्यं तद्गायति-कथयतीति, तच्छल्यगं यत्परिज्ञानं तन्नात्रेत्यशल्यगत्वमिति, तथा न विद्यते सिद्धेः- मोक्षस्य। विशिष्टस्थानोपलक्षितस्य मार्गो यस्मिंस्तदसिद्धिमार्गम्, तथा न विद्यते मुक्तेः-अशेषकर्मप्रच्युतिलक्षणाया मार्गः-सम्यग्दर्शनज्ञानचारित्रात्मको यस्मिंस्तदमुक्तिमार्गम्, तथा न विद्यते परिनिर्वृतेः- परिनिर्वाणस्यात्मस्वास्थ्यापत्तिरूपस्य मार्गः- पन्था / यस्मिन् स्थाने तदपरिनिर्वाणमार्गम्, तथा न विद्यते सर्वदुःखानां-शारीरमानसानांप्रक्षयमार्गः सदुपदेशात्मको यस्मिंस्तदसर्वदुःखप्रक्षीणमार्गम्, कुत एवंभूतं तत्स्थानमित्याशङ्कयाह- एगंते त्यादि, एकान्तेनैव तत्स्थानं यतो मिथ्याभूतं-मिथ्यात्वोपहतबुद्धीनां // 598 // 18888888