SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 2 // 600 / सूत्रम् 34 ख्यातमिति // 33 // ६६८॥साम्प्रतं धर्माधर्मयुक्तं तृतीय स्थानमाश्रित्याह श्रुतस्कन्धः२ द्वितीयमध्ययन अहावरे तच्चस्स ट्ठाणस्स मिस्सगस्स विभंगे एवमाहिज्जइ, जे इमे भवंति आरण्णिया आवसहिया गामणियंतिया कण्हुईरहस्सिता क्रियास्थानम्, जाव ते तओ विप्पमुच्चमाणा भुजो एलमूयत्ताए तमूत्ताए पच्चायंति, एस ठाणे अणारिए अकेलवे जाव असव्वदुक्खपहीणमग्गे एगंतमिच्छे असाहू, एस खलु तच्चस्स ठाणस्स मिस्सगस्स विभंगे एवमाहिए।सूत्रम् 34 // ( // 669 // ) (669) __ अथापरस्तृतीयस्य स्थानस्य मिश्रकाख्यस्य विभङ्गो विभागः स्वरूपमाख्यायते। अत्र चाधर्मपक्षण युक्तो धर्मपक्षो मिश्र मिश्रस्थानम् इत्युच्यते, तत्राधर्मस्येह भूयिष्ठत्वादधर्मपक्ष एवायं द्रष्टव्यः, एतदुक्तं भवति- यद्यपि मिथ्यादृष्टयः काश्चित्तथाप्रकारांक प्राणातिपातादिनिवृत्तिं विदधति तथाप्याशयाशुद्धत्वादभिनवेपित्तोदये सति शर्करामिश्रक्षीरपानवदूषरप्रदेशवृष्टिवद्विवक्षिता साधकत्वान्निरर्थकतामापद्यते, ततो मिथ्यात्वानुभावात् मिश्रपक्षोऽप्यधर्म एवावगन्तव्य इति / एतदेव दर्शयितुमाह-जे इमे भवंती त्यादि, ये इमेऽनन्तरमुच्यमाना अरण्ये चरन्तीत्यारण्यिकाः- कन्दमूलफलाशिनस्तापसादयो ये चावसथिकाः-आवसथो- गृहं तेन चरन्तीत्यावसथिकाः- गृहिणः, ते च कुतश्चित् पापस्थानानिवृत्ता अपि प्रबलमिथ्यात्वोपहतबुद्धयः, ते / यद्यप्युपवासादिना महता कायक्लेशेन देवगतयः केचन भवन्ति तथापि ते आसुरीयेषु स्थानेषु किल्बिषिकेषूत्पद्यन्त इत्यादि। सर्वं पूर्वोक्तं भणनीयं यावत्ततश्च्युता मनुष्यभवं प्रत्यायाता एलमूकत्वेन तमोऽन्धतया जायन्ते / तदेवमेतत्स्थानमनार्यमकेवलंअसंपूर्णमनैयायिकमित्यादि यावदेकान्तमिथ्याभूतं सर्वथैतदसाध्विति, तृतीयस्थानस्य मिश्रकस्यायं विभङ्गो विभागः स्वरूपमाख्यातमिति // 34 // 669 // उक्तान्यधर्मधर्ममिश्रस्थानानि, साम्प्रतं तदाश्रिताः स्थानिनोऽभिधीयन्ते- यदिवा प्राक्तनमेवान्येन // 600 // प्रकारेण विशेषिततरमुच्यते-तत्राद्यमधार्मिकस्थानमाश्रित्याह ®नकमा० (मु०)।
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy