________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 594 // इत्येवमसावात्मानं पापेन कर्मणोपाख्यापयिता भवति // किञ्च- अथैकः कश्चित्केनचिन्निमित्तेन गृहपत्यादेः कुपितस्तत्सम्बन्धिना श्रुतस्कन्धः२ मुष्ट्रादीनां शाला- गृहाणि कंटकबोंदियाए त्ति कण्टकशाखाभिः प्रतिविधाय पिहित्वा स्थगित्वा स्वयमेवाग्निना दहेत् / शेषं / द्वितीयमध्ययनं क्रियास्थानम्, पूर्ववत् // अपिच- अथैकः कश्चित्केनचिदादानेन कुपितो गृहपत्यादेः सम्बन्धि कुण्डलादिकं द्रव्यजातं स्वयमेवापहरेदवशिष्टं सूत्रम् 32 पूर्ववत् ॥साम्प्रतं पाखण्डिकोपरिकोपेन यत्कुर्यात्तद्दर्शयितुमाह- अथैकः कश्चित्स्वदर्शनानुरागेण वा वादपराजितो वाऽन्येन (667) अधर्मसेवनम् वा केनचिन्निमित्तेन कुपितः सन्नेतत्कुर्यादित्याह- तद्यथा-श्राम्यन्तीति श्रमणास्तेषामन्येषामपि तथाभूतानां केनचिदादानेन कुपितः सन्दण्डकादिकमुपकरणजातमपहरेत् अन्येन वा हारयेदन्यं वा हरन्तं समनुजानीयात् इत्यादि पूर्ववत् ॥एवं तावद्विरोधिनोऽभिहिताः, साम्प्रतमितरेऽभिधीयन्ते- अथैकः कश्चित् दृढमूढतया नौ विगिच्छइ त्ति न विमर्षति न मीमांसते, यथाऽनेन कृतेन ममामुत्रानिष्टफलं स्यात् तथा मदीयमिदमनुष्ठानं पापानुबन्धीत्येवं न पर्यालोचयति, तद्भावापन्नश्च यत्किञ्चनकारितया / इहपरलोकविरोधिनी: क्रियाः कुर्यात्, एतदेवोद्देशतो दर्शयति- तद्यथा- गृहपत्यादेनिनिमित्तमेव-तत्कोपमन्तरेणैव स्वयमे-13 वात्मनाऽग्निकायेन- अग्निनौषधी:- शालिव्रीह्यादिकाः ध्मापयेत्-दहेत् तथाऽन्यन दाहयेद्दहन्तं च समनुजानीयादित्यादि ॥तथेहामुत्र। च दोषापर्यालोचको निस्त्रिंशतया गृहपत्यादिसम्बन्धिनां क्रमेलकादीनां जवादीनवयवांश्छिन्द्यात् / / तथा शालां दहेत् // तथा गृहपत्यादेः सम्बन्धिः कुण्डलमणिमौक्तिकादिकमपहरेत् // तथा श्रमणब्राह्मणादीनांदण्डादिकमुपकरणजातमपहरेदित्येवं प्राक्तना एवालापका आदानकुपितस्य येऽभिहितास्त एव तदभावेनाभिधातव्या इति ॥साम्प्रतं विपर्यस्तदृष्टयः आगाढमिथ्यादृष्टयो // 594 // ऽभिधीयन्ते- अथैकः कश्चिदभिगृहीतमिथ्याष्टिरभद्रकः साधुप्रत्यनीकतया श्रमणादीनां निर्गच्छतां प्रविशतां वा स्वतश्च 0 वितिगिंछइ (मु०)।