SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः२ द्वितीयमध्ययन क्रियास्थानम्, सूत्रम् 31 (666) अधर्मपक्षसेवनम् श्रीसूत्रकृताङ्गं प्रतिपथे स्थित्वा तस्यार्थवतो विश्रम्भतो हन्ता छेत्ता यावदपद्रावयिता भवतीत्येवमसावात्मानं पापैः कर्मभिः ख्यापयतीति // अथैकः नियुक्ति कश्चिद्विरूपकर्मणा जीवितार्थी संधिच्छेदकभाव खत्रखननत्वं प्रतिपद्यानेनोपायेनात्मानमहं वर्तयिष्यामीत्येवं प्रतिज्ञां कृत्वा श्रीशीला वृत्तियुतम् तमेव प्रतिपद्यते, ततोऽसौ सन्धिं छिन्दन्-खत्रं खनन् प्राणिनां (हन्ता) छेत्ता भत्ता विलुम्पयिता भवतीति, एतच्च कृत्वाऽऽहार माहारयतीति, एतच्चोपलक्षणमन्यांश्च कामभोगान् स्वतो भुङ्क्तेऽन्यदपि ज्ञातिगृहादिकं पालयतीत्येवमसौ महद्भिः पापैः / / / 589 // कर्मभिरात्मानमुपख्यापयति // अथैकः कश्चिदसदनुष्ठायी घुघुरादिना ग्रन्थिच्छेदकभावं प्रतिपद्य तमेवानुयाति, शेषं पूर्ववत् // अथैकः कश्चिदधर्मकर्मवृत्तिः उरभ्रा- उरणकास्तैश्चरति यः स औरभ्रिकः, स च तदूर्णया तन्मांसादिना वाऽऽत्मानं वर्तयति, तदेवमसौ तद्भावं प्रतिपद्योरभ्रं वाऽन्यं वा त्रसं प्राणिनं स्वमांसपुष्ट्यर्थं व्यापादयति, तस्य वा हन्ता छेत्ता भेत्ता भवतीति शेष पूर्ववत् // अत्रान्तरे सौकरिकपदम्, तच्च स्वबुद्ध्या व्याख्येयम्, सौकरिकाः- श्वपचाश्चाण्डालाः खट्टिका इत्यर्थः।। अथैकः कश्चित् क्षुद्रसत्त्वो वागुरिकभावं लुब्धकत्वं प्रतिसंधाय प्रतिपद्य वागुरया मृगं हरिणमन्यं वा त्रसं प्राणिनं शशादिकमात्मवृत्त्यर्थं स्वजनाद्यर्थं वा व्यापादयति, तस्य च हन्ता छेत्ता भेत्ता भवति, शेषं पूर्ववत् ॥अथैकः कश्चिदधमोपायजीवी शकुना-लावकादयस्तैश्चरति शाकुनिकस्तद्भावं प्रतिसंधाय तन्मांसाद्यर्थी शकुनमन्यं वा त्रसं व्यापादयति, तस्य च हननादिकां क्रियां करोतीति, शेषं पूर्ववत् // अथैकः कश्चिदधमाधमो मात्स्यिकभावं प्रतिपद्य मत्स्यं वाऽन्य(वा)जलचरं प्राणिनं व्यापादयेत्, हननादिकाः वा क्रियाः कुर्यात्, शेषं सुगमम्॥ अथैकः कश्चिद्रोपालकभावं प्रतिपद्य कस्याश्चिद्गोः कुपितः सन् तां गां परिविच्य पृथक् कृत्वा तस्या हन्ता छेत्ता भेत्ता भूयो भूयो भवति, शेषं पूर्ववत् // अथैकः कश्चित्क्रूरकर्मकारी गोघातकभावं प्रतिपद्य गामन्यतरं वा त्रसं 0 कर्तयि० (मु०)। // 589 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy