SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ द्वितीयमध्ययन क्रियास्थानम्, सूत्रम् 31 (666) अधर्मपक्षसेवनम् // 588 // प्रतिपद्यते, अथवा गोघातकः स्याद्, अथवा श्वभिश्चरति शौवनिकः शुनां परिपालको भवतीत्यर्थः, अथवा सोवणियं तिये ति श्वभिः पापर्द्धिं कुर्वन्मृगादीनामन्तं करोतीत्यर्थः॥ तदेवमेतानि चतुर्दशाप्युद्दिश्य प्रत्येकमादितः प्रभृति विवृणोति- तत्रैकः कश्चिदात्माद्यर्थं अपरस्य गन्तुामान्तरं किश्चिद्रव्यजातमवगम्य तदादित्सुस्तस्यैवानुगामुकभावंप्रतिसंधाय सहगन्तृभावेनानुकूल्यं प्रतिपद्य विवक्षितवञ्चनावसरकालाद्यपेक्षी तमेव गच्छन्तमनुव्रजति, तमेव चाभ्युत्थानविनयादिभिरत्यन्तोपचारैरुपचर्यानुव्रज्य च विवक्षितमवसरं लब्ध्वा तस्यासौ हन्ता दण्डादिभिः भवति तथा छेत्ता खगादिना हस्तपादादेः तथा भेत्ता वज्रमुष्ट्यादिना तथा लुम्पयिता केशाकर्षणादिकदर्थनतः तथा विलुम्पयिता कशाप्रहारादिभिरत्यन्तदुःखोत्पादनेन तथा अपद्रावयिता जीविताव्यपरोपणतो भवतीत्येवमादिकं कृत्वाऽऽहारमाहारयत्यसौ, एतदुक्तं भवति- गलकर्तकः कश्चिदन्यस्य धनवतोऽनुगामुकभावं प्रतिपद्यतं बहुविधैरुपायैर्विश्रम्भे पातयित्वा भोगार्थी मोहान्धःसाम्प्रतेक्षितया तस्य रिक्थवतोऽपकृत्याहारादिकां भोगक्रियां विधत्ते / इत्येवमसौ महद्भिः क्रूरैः कर्मभिः- अनुष्ठानैर्महापातकभूतैर्वा तीव्रानुभावैर्दीर्घस्थितिकैरात्मानमुपख्यापयिता भवति, तथाहि- अयमसौ महापापकारीत्येवमात्मानं लोके ख्यापयति, अष्टप्रकारैर्वा कर्मभिरात्मानं तथा बन्धयति यथा लोके तद्विपाकापादितनावस्थाविशेषेण सता नारकतिर्यड्नरामररूपतयाऽऽख्यात इति ॥तदेवमेकः कश्चिदकर्तव्याभिसन्धिना परस्य स्वापतेयवतस्तद्वञ्चनार्थमुपचरकभावं प्रतिसंधाय प्रतिज्ञाय पश्चात्तं नानाविधैर्विनयोपायैरुपचरत्ति, उपचर्य च विश्रम्भे पातयित्वा तव्यार्थी तस्य हन्ता छेत्ता भत्ता यावदपद्रावयिता भवतीत्येवमसावात्मानं महद्भिः बृहद्भिः पापैः कर्मभिः उपाख्यापयिता भवतीति ॥अथैकः कश्चित्प्रतिपथेन- अभिमुखेन चरतीति प्रातिपथिकस्तद्भावं प्रतिपद्यापरस्यार्थवतस्तदेव प्रातिपथिकत्वं कुर्वन् ७'सोवणिय'ति (मु०)। ॐ दण्डादिभिः तथा (मु०)। // 588 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy