SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 590 // प्राणिनं व्यापादयेत्, तस्य च हननादिकाः क्रियाः कुर्यादिति // अथैकः कश्चिज्जघन्यकर्मकारी शौवनिकभावं प्रतिपद्य सारमेय- श्रुतस्कन्धः२ पापर्द्धिभावं प्रतिज्ञाय तमेव श्वानं तेन वा परं मृगसूकरादिकं त्रसं प्राणिनं व्यापादयेत् तस्य च हननादिकाः क्रियाः कुर्यादिति // क्रियास्थानम्, अथैकः कश्चिदनार्यो निर्विवेकः सोवणियंतियभावं ति श्वभिश्चरति शौवनिकः अन्तोऽस्यास्तीत्यन्तिकोऽन्ते वा चरत्यान्तिकः सूत्रम् 32 पर्यन्तवासीत्यर्थः, शौवनिकश्चासावान्तिकश्च शौवनिकान्तिकः- क्रूरसारमेयपरिग्रहः प्रत्यन्तनिवासी च प्रत्यन्तनिवासिभिर्वा अधर्मसेवनम् श्वभिश्चरतीति, तदसौ तद्भावं प्रतिसंधाय-दुष्टसारमेयपरिग्रहं प्रतिपद्य, मनुष्यं वा कञ्चन पथिकमभ्यागतमन्यं वा मृगसूकरादिकं / त्रसं प्राणिनं हन्ता भवन्ति, अयं च ताच्छीलिकस्तृन् लुट्प्रत्ययो वा द्रष्टव्यः, तृचि तु साध्याहारं प्राग्वव्याख्येयम्, तद्यथापुरुषं व्यापादयेत् तस्य च हन्ता छेत्ता इत्यादि, तृन्लुट्प्रत्ययौ प्रागपि योजनीयाविति / तदेवमसौ महाक्रूरकर्मकारी महद्भिः कर्मभिरात्मानमुपख्यापयिता भवतीति॥३१॥६६६ ॥उक्ताऽसदाजीवनोपायभूता वृत्तिः, इदानीं क्वचित्कुतश्चिन्निमित्तादभ्युपगमं दर्शयति से एगइओ परिसामज्झाओ उठ्ठित्ता अहमेयं हणामित्तिक? तित्तिरं वा वहां वा लावगंवा कवोयगंवा कविंजलं वा अन्नयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ॥ से एगइओ केणइ आयाणेणं विरुद्ध समाणे अदुवा खलदाणेणं अदुवा सुराथालएणं गाहावतीण वा गाहावइपुत्ताण वा सयमेव अगणिकाएणं सस्साइंझामेइ अन्नेणवि अगणिकाएणं सस्साइंझामावेइ अगणिकाएणं सस्साइंझामंतंपि अन्नं समणुजाणइ इति से महया पावकम्मेहिं अत्ताणं उवक्खाइत्ता भवइ॥से एगइओ केणइ आयाणेणं विरुद्धे समाणे अदुवाखलदाणेणं अदुवा सुराथालएणं गाहावतीण वा गाहावइपुत्ताण वा उट्टाण वा गोणाण वा घोडगाण वा गद्दभाण वा सयमेव घूराओ कप्पेति अन्नेणवि कप्पावेति कप्पंतपि अन्नं समणुजाणइ इति से महया जाव भवइ ।।से एगइओ केणइ आयाणेणं // 590
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy