SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः२ क्रियास्थानम्, सूत्रम् 30 भौमादिप्रयोक्तुः फलम् श्रीसूत्रकृताङ्ग द्वादश क्रियास्थानानि तेषु वर्तन्ते तेषां च तद्वर्तिनामसुमतां मिथ्यात्वाविरतिप्रमादकषाययोगनिमित्तः सांपरायिको बन्धो नियुक्ति भवति, यत्र च प्रमादस्तत्र कषाया योगाश्च नियमाद्भवन्ति, कषायिणश्च योगाः, योगिनस्त्वेते भाज्याः,तत्र प्रमादकषायश्रीशीला० वृत्तियुतम् प्रत्ययिको बन्धोऽनेकप्रकारस्थितिः, तद्रहितस्तु केवलयोगप्रत्ययिको द्विसमयस्थितिरेवेर्याप्रत्ययिक इति स्थितम् // एतानि श्रुतस्कन्धः 2 त्रयोदश क्रियास्थानानि न भगवद्वर्धमानस्वामिनैवोक्तानि अपि त्वन्यैरपीत्येतदर्शयितुमाह- से बेमी त्यादि, सोऽहं ब्रवीमीति, // 582 // यत्प्रागुक्तं तद्वा ब्रवीमीति, तद्यथा- ये तेऽतिक्रान्ता ऋषभादयस्तीर्थकृतो ये च वर्तमानाः क्षेत्रान्तरे सीमन्धरस्वामिप्रभृतयो ये चागामिनः पद्मनाभादयोऽर्हन्तो भगवन्तः सर्वेऽपि ते पूर्वोक्तान्येतानि त्रयोदश क्रियास्थानान्यभाषिषुः भाषन्ते भाषिष्यन्ते च / तथा तत्स्वरूपतस्तद्विपाकतश्च प्ररूपितवन्तः प्ररूपयन्ति प्ररूपयिष्यन्ति च / तथैतदेव त्रयोदशं क्रियास्थानं सेवितवन्तः सेवन्ते सेविष्यन्ते / च, यथा हि जम्बूद्वीपे सूर्यद्वयं तुल्यप्रकाशं भवति यथा वा सदृशोपकरणाः प्रदीपास्तुल्यप्रकाशा भवन्ति एवं तीर्थकृतोऽपि निरावरणत्वात् कालत्रयवर्तिनोऽपि तुल्योपदेशा भवन्ति // 29 // 664 // साम्प्रतं त्रयोदशसु क्रियास्थानेषु यन्नाभिहितं पापस्थानं तद्विभणिषुराह____ अदुत्तरं च णं पुरिसविजयं विभंगमाइक्खिस्सामि, इह खलु णाणापण्णाणंणाणाछंदाणं णाणासीलाणंणाणादिट्ठिणंणाणारूईणं णाणारंभाणंणाणाज्झवसाणसंजुत्ताणंणाणाविहपावसुयज्झयणं एवं भवइ, तंजहा- भोमं उप्पायं सुविणं अंतलिक्खं अंगं सरं लक्खणं वंजणं इथिलक्खणं पुरिसलक्खणं हयलक्खणं गयलक्खणं गोणलक्खणं मिंढलक्खणं कुक्कडलक्खणं तित्तिरलक्खणं वगलक्खणं लावयलक्खणं चक्कलक्खणं छत्तलक्खणं चम्मलक्खणं दंडलक्खणं असिलक्खणं मणिलक्खणं O: स्थितितः (प्र०)। 0 मिथ्या न भाषामि विशालनेत्रे!' इति वत्परस्मै / // 582 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy