________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 581 // क्रिया गुप्त्युपेतब्रह्मचारिणश्च सतः, तथोपयुक्तं गच्छतस्तिष्ठतो निषीदतस्त्वक्वर्तनां कुर्वाणस्य तथोपयुक्तमेव वस्त्रं पतद्गृहं कम्बलं पादपुञ्छन श्रुतस्कन्धः 2 वा गृह्णतो निक्षिपतो वा यावच्चक्षुःपक्ष्मनिपातमप्युपयुक्तं कुर्वतः सतोऽत्यन्तमुपयुक्तस्यापि अस्ति-विद्यते विविधा मात्रा विमात्रा 8 द्वितीयमध्ययन क्रियास्थानम्, तदेवंविधा सूक्ष्माक्षिपक्ष्मसंचलनरूपादिकेर्यापथिका नाम क्रिया केवलिनाऽपि क्रियते, तथाहि-सयोगी जीवो न शक्नोति सूत्रम् 29 क्षणमप्येकं निश्चलः स्थातुम्, अग्निना ताप्यमानोदकवत्कार्मणशरीरानुगतः सदा परिवर्तयन्नेवास्ते, तथा चोक्तं- केवली णं / (664) ईर्यापथिकभंते! अस्सिं समयंसि जेसुआगासपएसेसुइत्यादि / तदेवं केवलिनोऽपिसूक्ष्मगात्रसंचारा भवन्ति, इह च कारणे कार्योपचारात्तया क्रियया यद्बध्यते कर्म तस्य च कर्मणो या अवस्थास्ताः क्रियाः, ता एव दर्शयितुमाह- सा पढमसमये इत्यादि, याऽसावकषायिणः क्रिया तया यद्बध्यते कर्म तत्प्रथमसमय एव बद्धं स्पृष्टं चेतिकृत्वा तक्रियैव बद्धस्पृष्टेत्युक्ता, तथा द्वितीयसमये वेदितेत्यनुभूता तृतीयसमये निर्जीर्णा, एतदुक्तं भवति-कर्म योगनिमित्तं बध्यते, तत्स्थितिश्च कषायायत्ता, तदभावाच्च न तस्य सांपरायिकस्येव स्थितिः, किंतु योगसद्भावाद्बध्यमानमेव स्पृष्टतां-संश्लेषं याति, द्वितीयसमये त्वनुभूयते, तच्च प्रकृतितः सातावेदनीयं स्थितितो द्विसमयस्थितिकमनुभावतः शुभानुभावं अनुत्तरोपपातिकदेवसुखातिशायि प्रदेशतो बहुप्रदेशमस्थिरबन्धं बहुव्ययं च, तदेवं सेर्यापथिका क्रिया प्रथमसमये बद्धस्पृष्टा द्वितीयसमये उदिता वेदिता निर्जीर्णा भवति, सेयकाले। त्ति आगामिनि तृतीयसमये तत्कर्मापेक्षयाऽकर्मतापि च भवति, एवं तावद्वीतरागस्येर्याप्रत्ययिकं कर्म आधीयते सम्बध्यते। तदेतत्त्रयोदशं क्रियास्थानं व्याख्यातम् / ये पुनस्तेभ्योऽन्ये प्राणिनस्तेषां सांपरायिको बन्धः, ते तु यानि प्रागुक्तानीर्यापथवर्जानि 3 // 581 // केवली भदन्त! अस्मिन् समये येष्वाकाशप्रदेशेषु / बध्यमानस्य बद्धत्वादाद्यस्य गणना तृतीयस्य तु निर्जीर्यमाणस्य निर्जीर्णत्वान्न स्थितौ गणनेति उक्तमित्थम्, भाष्ये तत्त्वार्थस्य तु एकसमयस्थितिकमिति। 0 वानि (मु०)।