________________ श्रीसूत्रकृताङ्ग नियुक्ति श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 579 / / श्रुतस्कन्धः 2 द्वितीयमध्ययन क्रियास्थानम्, सूत्रम् 28 (663) लोभक्रिया सूत्रम् 29 ईर्यापथिकक्रिया भुक्त्वा, ते च किल वयं प्रव्रजिता इति, न च भोगेभ्यो विनिवृत्ताः, यतो मिथ्यादृष्टितयाऽज्ञानान्धत्वात्सम्यग्विरतिपरिणाम (ग्रन्थाग्रं 9500) रहिताः, ते चैवंभूतपरिणामाः स्वायुषः क्षये कालमासे कालं कृत्वा विकृष्टतपसोऽपि सन्तोऽन्यतरेष्वासुरिकेषु किल्बिषिकेषु स्थानेषूत्पादयितारो भवन्ति, ते ह्यज्ञानतपसा मृता अपि किल्बिषिकेषु स्थानेषूत्पत्स्यन्ते, तस्मादपि स्थानादायुषः क्षयाद्विप्रमुच्यमानाः- च्युताः किल्बिषबहुलास्तत्कर्मशेषेणैलवन्मूका एलमूकास्तद्भावनोत्पद्यन्ते, किल्बिषिकस्थानाच्च्युतः सन्ननन्तरभवे वा मानुषत्वमवाप्य यथैलको मूकोऽव्यक्तवाक् भवति एवमसावप्यव्यक्तवाक् समुत्पद्यत इति / तथा तमूयत्ताए त्ति तमस्त्वेन-अत्यन्तान्धतमसत्वेन जात्यन्धतया अत्यन्ताज्ञानावृततया वा तथा जातिमूकत्वेनापगतवाच इह प्रत्यागच्छन्तीति / तदेवंभूतं खलु तेषां तीथिकानां परमार्थतः सावद्यानुष्ठानादनिवृत्तानामाधाकर्मादिप्रवृत्तेस्तत्प्रायोग्यभोगभाजां तत्प्रत्ययिक लोभप्रत्ययिकं सावद्यं कर्माधीयते / तदेतल्लोभप्रत्ययिकं द्वादशं क्रियास्थानमाख्यातमिति // 28 // 663 // साम्प्रतमेतेषां द्वादशानामप्युपसंहारार्थमाह- इतिः उपप्रदर्शने एतानि अर्थदण्डादीनि लोभप्रत्ययिकक्रियास्थानपर्यवसानानि द्वादशापि क्रियास्थानानि कर्मग्रन्थिद्रावणावः- संयमः स विद्यते यस्यासौ द्रविको मुक्तिगमनयोग्यतया वा द्रव्यभूतः श्रमणः- साधुः, तमेव विशिनष्टि-मावधीरित्येवं प्रवृत्तिर्यस्यासौमाहनस्तेनैव एतद्द्वणविशिष्टेनैतानि सम्यग्यथावस्थितवस्तुस्वरूपनिरूपणतो मिथ्यादर्शनाश्रितानि संसारकारणानीतिकृत्वा ज्ञपरिज्ञया ज्ञातव्यानि प्रत्याख्यानपरिज्ञया च परिहर्तव्यानि भवन्तीति॥ अहावरे तेरसमे किरियट्ठाणे इरियावहिएत्ति आहिज्जइ, इह खलु अत्तत्ताए संवुडस्स अणगारस्स ईरियासमियस्स भासासमियस्स एसणासमियस्स आयाणभंडमत्तणिक्खेवणासमियस्स उच्चारपासवणखेलसिंघाणजल्लपारिट्ठावणियासमियस्स मणसमियस्स ©ज्ञया परि० (मु०)। // 579 //