SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् / श्रुतस्कन्धः 2 // 577 // अन्ने उद्दवेयव्वा, एवमेव ते इत्थिकामेहिं मुच्छिया गिद्धा गढिया गरहिया अज्झोववन्ना जाव वासाइंचउपंचमाई छद्दसमाई अप्पयरो श्रुतस्कन्धः२ वा भुजयरो वा भुंजित्तु भोगभोगाई कालमासे कालं किच्चा अन्नयरेसु आसुरिएसु किब्बिसिएसु ठाणेसु उववत्तारो भवंति, ततो द्वितीयमध्ययनं क्रियास्थानम्, विप्पमुच्चमाणे भुजो भुजो एलमूयत्ताए तमूयत्ताए जाइयत्ताए पच्चायंति, एवं खलु तस्स तप्पत्तियं सावजंति आहिजइ, दुवालसमे सूत्रम् 28 किरियट्ठाणे लोभवत्तिएत्ति आहिए। इच्चेयाइंदुवालस किरियट्ठाणाइंदविएणं समणेण वा माहणेण वा सम्मंसुपरिजाणिअव्वाई (663) लोभक्रिया भवंति // सूत्रम् 28 // // 663 // ) एकादशात् क्रियास्थानादनन्तरमथापरं द्वादशं क्रियास्थानं लोभप्रत्ययिकमाख्यायते, तद्यथा- य इमे वक्ष्यमाणा अरण्ये वसन्तीत्यारण्यकाः, ते च कन्दमूलफलाहाराः सन्तः केचन वृक्षमूले वसन्ति, केचनावसथेषु-उडजाकारेषु गृहेषु, तथा अपरे ग्रामादिकमुपजीवन्तो ग्रामस्यान्ते- समीपे वसन्तीति ग्रामान्तिकाः, तथा क्वचित् कार्ये मण्डलप्रवेशादिके रहस्यं येषां ते क्वचिद्राहसिकाः, ते च न बहुसंयता न सर्वसावद्यानुष्ठानेभ्यो निवृत्ताः, एतदुक्तं भवति- न बाहुल्येन त्रसेषु दण्डसमारम्भं विदधति, एकेन्द्रियोपजीविनस्त्वविगानेन तापसादयो भवन्तीति, तथा न बहुविरता न सर्वेष्वपि प्राणातिपातविरमणादिषु / व्रतेषु वर्तन्ते, किंतु? द्रव्यतः कतिपयव्रतवर्तिनोन भावतो, मनागपितत्कारणस्य सम्यग्दर्शनस्याभावादित्यभिप्रायः, इत्येतदेवाविर्भावयितुमाह-सव्वपाणे त्यादि, ते ह्यारण्यकादयः सर्वप्राणिभूतजीवसत्त्वेभ्य आत्मना-स्वतः अविरता:- तदुपमर्दकारम्भादविरता इत्यर्थः / तथा ते पाषण्डिका आत्मना- स्वतो बहूनि सत्या(त्य)मृषाभूतानि वाक्यानि एवं वक्ष्यमाणनीत्या विशेषेण प्रयुञ्जन्ति वियुञ्जन्ति ब्रुवत इत्यर्थः, यदिवा सत्यान्यपि तानि प्राण्युपमर्दकत्वेन मृषाभूतानि सत्या(त्य)मृषाणि, 0 उडवाकारेषु (प्र०)। (r) युञ्जन्ति प्रयुञ्जन्ति (मु०)।
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy