________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 2 // 575 // (662) मायाप्रत्ययिकम् तेषां च सर्वार्थविसंवादिनां कपटप्रपञ्चचतुराणां विपाकोद्भावनाय दृष्टान्तं दर्शयितुमाह- से जहे त्यादि, तत् यथा नाम श्रुतस्कन्धः 2 कश्चित्पुरुषः संग्रामादपक्रान्तोऽन्तः- मध्ये शल्यं- तोमरादिकं यस्य सोऽन्तःशल्यः, स च शल्यघटनवेदनाभीरुतया तच्छल्यं द्वितीयमध्ययनं क्रियास्थानम्, न स्वतो निर्हरति अपनयति- उद्धरति नाप्यन्येनोद्धारयति, नापि तच्छल्यं वैद्योपदेशेनौषधोपयोगादिभिरुपायैः प्रतिध्वंसयति सूत्रम् 27 विनाशयति, अन्येन केनचित्पृष्टो वाऽपृष्टो वा तच्छल्यमेवमेव निष्प्रयोजनमेव निद्भुते अपलपति, तेन च शल्येनासावन्तर्वर्तिना अविउट्टमाणे त्ति पीड्यमानः अंतो अंतो ति मध्ये मध्ये पीड्यमानोऽपि रीयते व्रजति, तत्कृतां वेदनामधिसहमानः क्रियासु प्रवर्तत इत्यर्थः / साम्प्रतंदान्तिकमाह-एवमेवे त्यादि, यथाऽसौसशल्यो दुःखभाग्भवति एवमेवासौमायी मायाशल्यवान् / यत्कृतमकार्यं तन्मायया निगृहयन् मायां कृत्वा न तां मायामन्यस्मै आलोचयति कथयति, नापि तस्मात् स्थानात्प्रतिक्रामतिन ततो निवर्तते, नाप्यात्मसाक्षिकं तन्मायाशल्यं निन्दति, तद्यथा-धिमां यदूहमेवंभूतमकार्यं कर्मोदयात्तत् कृतवान्, तथा नापि परसाक्षिकंगर्हति-आलोचनार्हसमीपे गतो नापिच जुगुप्सते, तथानो विउट्टई त्ति नापितन्मायाख्यंशल्यमकार्यकरणात्मकं विविधं अनेकप्रकारं त्रोटयति-अपनयति, यद्यस्यापराधस्य प्रायश्चित्तं तत्तेन पुनस्तदकरणतया (न) निवर्तयतीत्यर्थः, नापि तन्मद्यादिकमकार्यं सेवित्वाऽऽलोचनाहयात्मानं निवेद्य तदकार्याकरणतयाऽभ्युत्तिष्ठते, प्रायश्चित्तं प्रतिपद्यापि नोद्युक्तविहारी भवतीत्यर्थः, तथानापि गुर्वादिभिरभिधीयमानोऽपि यथाऽहं अकार्यनिर्वहणयोग्यं प्रायः चित्तंशोधयतीतिप्रायश्चित्तं - तपःकर्म विशिष्टं चान्द्रायणाद्यात्मकं प्रतिपद्यते अभ्युपगच्छति / तदेव मायया सत्कार्यप्रच्छादकोऽस्मिन्नेव लोके मायावीत्येवं सर्व 8 // 575 // कार्येष्वेवाविश्रम्भणत्वेन प्रत्यायाति प्रख्यातिं याति, तथाभूतश्च सर्वस्यापि अविश्वास्यो भवति, तथा चोक्तं- मायाशीलः ७०कोद्भवनाय (मु०) 0 तच्छल्यं निष्प्र० (मु०)। 0 विउट्टति'नापि (मु०)।