________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 573 // श्रुतस्कन्धः 2 द्वितीयमध्ययनं क्रियास्थानम्, सूत्रम् 26 (661) मित्रद्वेष दण्डः सूत्रम् 27 (662) मायाप्रत्ययिकम् अपराधकर्तुः शरीरपार्वाणि उद्दालयितुं ति चर्माणि लम्बयितु भवति, तथा दण्डादिना कायमुपताडयिता भवतीति / तदेवमल्पापराधिन्यपि महाक्रोधदण्डवति तथाप्रकारे पुरुषजाते एकत्र वसति सति तत्सहवासिनो मातापित्रादयो दुर्मनसस्तदनिष्टाशङ्कया भवन्ति, तस्मिंश्च प्रवसति देशान्तरे गच्छति गते वा तत्सहवासिनः सुमनसो भवन्ति / तथाप्रकारश्च पुरुषजातोऽल्पेऽप्यराधे महान्तं दण्डं कल्पयतीति, एतदेव दर्शयितुमाह- दण्डस्य पार्श्व दण्डपार्श्व तद्विद्यते यस्यासौ दण्डपार्वी स्वल्पतया स्तोकापराधेऽपि कुप्यति दण्डं च पातयति / तमप्यतिगुरुमिति दर्शयितुमाह- दण्डेन गुरुको दण्डगुरुको यस्य च दण्डो महान् भवति असौ दण्डेन गुरुर्भवति, तथा दण्डः पुरस्कृतः सदा पुरस्कृतदण्ड इत्यर्थः, स चैवंभूतः स्वस्य परेषां च अस्मिन् लोके अस्मिन्नेव जन्मनि अहितः प्राणिनामहितदण्डापादनात्, तथा परस्मिन्नपि जन्मन्यसावहितः, तच्छीलतया चासौ यस्य कस्यचिदेव येन केनचिदेव निमित्तेन क्षणे क्षणे संज्वलयतीति संज्वलनः, सचात्यन्तक्रोधनो वधबन्धछविच्छेदादिषुशीघ्रमेव क्रियासु प्रवर्तते, तदभावेऽप्युत्कटद्वेषतया मर्मोद्धट्टनतः पृष्ठिमांसमपिखादेत्, तत्तदसौ ब्रूयात् येनासावपिपरः संज्वलेत्ज्वलितश्चान्येषामपकुर्यात्, तदेवं खलु तस्य महादण्डप्रवर्तयितुस्तद्दण्डप्रत्ययिकं सावधं कर्माऽऽधीयते / तदेतद्दशमं क्रियास्थानं मित्रद्रोहप्रत्ययिकमाख्यातमिति। अपरे पुनरष्टमं क्रियास्थानमात्मदोषप्रत्ययिकमाचक्षते, नवमंतु परदोषप्रत्ययिकम्, दशमं पुनः प्राणवृत्तिकं क्रियास्थानमिति॥ 26 // 661 // अहावरे एक्कारसमे किरियट्ठाणे मायावत्तिएत्ति आहिज्जइ, जे इमे भवंति- गूढायारा तमोकसिया उलुगपत्तलहुया पव्वयगुरुया ते आयरियावि संता अणारियाओ भासाओवि पउज्जंति, अन्नहासंतं अप्पाणं अन्नहा मन्नंति, अन्नं पुट्ठा अन्नं वागरंति, अन्नं (c) लुम्पयितुं (मु०)। // 573 //