________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 2 // 572 // श्रुतस्कन्धः२ द्वितीयमध्ययन क्रियास्थानम्, सूत्रम् 26 (661) मित्रद्वेष दण्डः अहावरे दसमे किरियट्ठाणे मित्तदोसवत्तिएत्ति आहिज्जइ, से जहाणामए केइ पुरिसे माईहिं वा पितीहिंवा भाईहिंवा भइणीहिं वा भजाहिंवा धूयाहिं वा पुत्तेहिं वासुण्हाहिं वासद्धिं संवसमाणे तेसिं अन्नयरंसि अहालहुगंसि अवराहसिसयमेव गरुयं दंडं निवत्तेति, तंजहा- सीओदगवियडंसि वा कार्य उच्छोलित्ता भवति, उसिणोदगवियडेण वा कायं ओसिंचित्ता भवति, अगणिकाएणं कायं उवडहित्ता भवति, जोत्तेण वा वेत्तेण वा णेत्तेण वा तयाइ वा (कण्णेण वा छियाए वा) लयाए वा (अन्नयरेण वा दवरएण) पासाई उद्दालित्ता भवति, दंडेण वा अट्ठीण वा मुट्ठीण वा लेलूण वा कवालेण वा कायं आउट्टित्ता भवति, तहप्पगारे पुरिसजाए संवसमाणे दुम्मणा भवति, पवसमाणे सुमणा भवति, तहप्पगारे पुरिसजाए दंडपासी दंडगुरुए दंडपुरकडे अहिए इमंसि लोगंसि अहिए परंसि लोगंसि संजलणे कोहणे पिट्ठिमंसियाविभवति, एवं खलु तस्स तप्पत्तियंसावजंति आहिजति, दसमे किरियट्ठाणे मित्तदोसवत्तिएत्ति आहिए।सूत्रम् 26 // // 661 // ) अथापरं दशमं क्रियास्थानं मित्रदोषप्रत्ययिकमाख्यायते, तद्यथा नाम कश्चित्पुरुषः प्रभुकल्पो मातापितृसुहृत्स्वजनादिभिः सार्धं परिवसंस्तेषां च मातापित्रादीनामन्यतमेनानाभोगतया यथाकथंचिल्लघुतमेऽप्यपराधे वाचिके दुर्वचनादिके तथा कायिके हस्तपादादिसंघट्टनरूपे कृते सति स्वयमेव- आत्मना क्रोधाध्मातो गुरुतरं दण्डं दुःखोत्पादकं निवर्तयति करोति, तद्यथा- शीतोदके विकटे प्रभूते शीते वा शिशिरादौ तस्य अपराधकर्तुः कायमधो बोलयिता भवति, तथोष्णोदकविकटेन कायं शरीरमपसिञ्चयिता भवति, तत्र विकटग्रहणादुष्णतैलेन काञ्जिकादिना वा कायमुपतापयिता भवति, तथा अग्निकायेन उल्मुकेन तप्तायसा वा कायमुपदाहयिता भवति, तथा योत्रेण वा वेत्रेण वा नेत्रेण वा त्वचा वा सनादिकया लतया वाऽन्यतमेन वा दवरकेण ताडनतः तस्य (r) पादादिके संघ० (मु०)।