________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 571 // मानदण्ड: मत्त: कुलबलरूपादिभिर्दूरमपभ्रष्टः सर्वजनावगीतोऽयमिति। अहं पुनर्विशिष्टजातिकुलबलादिगुणोपेतः, एवमात्मानं समुत्कर्षये- श्रुतस्कन्धः२ दिति / साम्प्रतं मानोत्कर्षविपाकमाह- देहा चुए इत्यादि, तदेवं जात्यादिमदोन्मत्तः सन्निहैव लोके गर्हितो भवति, अत्र च। द्वितीयमध्ययनं क्रियास्थानम्, जात्यादिपदद्वयादिसंयोगा द्रष्टव्याः, ते चैवं भवन्ति- जातिमदः कस्यचिन्न कुलमदः, अपरस्य कुलमदो न जातिमदः, सूत्रम् 25 परस्योभयम्, अपरस्यानुभयमित्येवं पदत्रयेणाष्टौ चतुर्भिः षोडशेत्यादि यावदष्टभिः पदैः षट्पञ्चाशदधिकं शतद्वयमिति, (660) सर्वत्र मदाभावरूपश्चरमभङ्गः शुद्ध इति / परलोकेऽपि च मानी दुःखभाग्भवतीत्यनेन प्रदर्श्यते- स्वायुषः क्षये देहाच्च्युतो भवान्तरं गच्छन् शुभाशुभकर्मद्वितीयः कर्मपरायत्तत्वादवशः- परतन्त्रः प्रयाति, तद्यथा- गर्भाद्गर्भ पञ्चेन्द्रियापेक्षं तथा गर्भादगर्भ विकलेन्द्रियेषूत्पद्यमानः पुनरगर्भाद्र्भमेवमगर्भादगर्भम्, एतच्च नरककल्पगर्भदुःखापेक्षायामभिहितम्, उत्पद्यमानदुःखापेक्षया / त्विदमभिधीयते- जन्मन एकस्मादपरं जन्मान्तरंव्रजति, तथा मरणं मारस्तस्मान्मारान्तरंव्रजति, तथा नरकदेश्यात्-श्वपाकादिवासाद्रत्नप्रभादिकं नरकान्तरं व्रजति, यदिवा नरकात्सीमन्तकादिकादुद्वर्त्य सिंहमत्स्यादावुत्पद्य पुनरपि तीव्रतरं नरकान्तरं व्रजति / तदेवं नटवद्रङ्गभूमौ संसारचक्रवाले स्त्रीपुंनपुंसकादीनि बहून्यवस्थान्तराण्यनुभवति / तदेवं मानी परपरिभवे सति चण्डो रौद्रो भवति परस्यापकरोति, तदभावे ह्यात्मानं व्यापादयति / तथा स्तब्धश्चपलो यत्किञ्चनकारी मानी सन् सर्वोऽप्येतदवस्थो भवतीति / तदेवं तत्प्रत्ययिकंमाननिमित्तं सावधं कर्म आधीयतेसम्बध्यते। नवममेतत्क्रियास्थानमाख्यातमिति॥२५॥ 660 // // 571 // Oपञ्चम्यन्तस्यास्मदो रूपम्। 0 अत्यन्तम्। 0 वक्ष्यमाणः तदेवमित्यादितः शुद्ध इति पर्यन्तः पाठोऽत्रत्य आभाति / परलोकेऽपीति वाक्यं च भवतीत्यस्याये। 80 देहबुए (मु०)। दुद्धृत्य (मु०)।