SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ समयः, श्रीसूत्रकृताङ्ग अंधो अंधं पहं णितो, दूरमद्धाण गच्छइ / आवजे उप्पहं जंतू , अदुवा पंथाणुगामिए / / सूत्रम् 19 // ( // 46 // ) श्रुतस्कन्धः१ नियुक्ति प्रथममध्ययन यथा अन्धः स्वयमपरमन्धं पन्थानं नयन् दूरमध्वानं विवक्षितादध्वनः परतरं गच्छति, तथोत्पथमापद्यते जन्तुरन्धः, अथवा परं श्रीशीला० वृत्तियुतम् पन्थानमनुगच्छेत्, न विवक्षितमेवाध्वानमनुयायादिति // 19 // 46 // एवं दृष्टान्तं प्रसाध्य दार्टान्तिकमर्थं दर्शयितुमाह- द्वितीयोद्देशकः श्रुतस्कन्धः१ __एवमेगेणियायट्ठी, धम्ममाराहगा वयं / अदुवा अहम्ममावज्जे, ण ते सव्वज्जुयं वए। सूत्रम् 20 // ( // 47 // ) सूत्रम् 19-20 // 67 // (46-47) * एव मिति पूर्वोक्तार्थोपप्रदर्शने, एवं भावमूढा भावान्धाश्चैके आजीविकादयः नियायट्ठी त्ति नियागो- मोक्षः सद्धर्मो वा नियतितदर्थिनः, ते किल वयं सद्धर्माराधका इत्येवं संधाय प्रव्रज्यायामुद्यताः सन्तः पृथिव्यम्बुवनस्पत्यादिकायोपमर्दैन पचनपाचनादि- वादिमतम् क्रियासु प्रवृत्तास्तत् तत्स्वयमनुतिष्ठन्ति अन्येषांचोपदिशन्ति येनाभिप्रेताया मोक्षावाप्तेभ्रंश्यन्ति, अथवाऽऽस्तांतावन्मोक्षा-8 भावः, त एवं प्रवर्तमाना अधर्म पापमापद्येरन्, संभावनायामुत्पन्नेन लिप्रत्ययेनैतद्दर्शयति- एतदपरं तेषामनर्थान्तरं संभाव्यते यदुत विवक्षितार्थाभावतया विपरीतार्थावाप्तेः पापोपादानमिति / अपिच-त एवमसदनुष्ठायिन आजीविकादयो गोशालकमतानुसारिणोऽज्ञानवादप्रवृत्ताः सर्वैः प्रकारैर्ऋजुः- प्रगुणो विवक्षितमोक्षगमनं प्रत्यकुटिलः सर्वर्जुः- संयमः सद्धर्मो वा तं सर्वर्जुकं ते न व्रजेयुः न प्राप्नुयुरित्युक्तं भवति, यदिवा- सर्वर्जुकं- सत्यं तत्तेऽज्ञानान्धा ज्ञानापलापिनो न वदेयुरिति / एते चाज्ञानिकाः सप्तषष्टिभेदा भवन्ति, ते च भेदा अमुनोपायेन प्रदर्शनीयाः, तद्यथा- जीवादयो नव पदार्थाः, सत् असत् सदसत् अवक्तव्यः सदवक्तव्यः असदवक्तव्यः सदसदवक्तव्य इत्येतैः सप्तभिः प्रकारैर्विज्ञातुं न शक्यन्ते, न च विज्ञातैः / / / 67 // प्रयोजनमस्ति, भावना चेयं-सन् जीव इति को वेत्ति? किंवा तेन ज्ञातेन?, असन् जीव इति को वेत्ति? किंवा तेन ज्ञातेनेत्यादि, 0 मद्धाणु (मु०)। 9 मापद्येत (प्र०)। 0 प्रवृत्ताः सन्तः तत्स्व० (मु०)।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy