SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 66 // श्रुतस्कन्धः१ प्रथममध्ययनं समयः, किमेतज्ज्ञानं सत्यमुतासत्यमिति?, यथा अज्ञानमेव श्रेयो यथा यथा च ज्ञानातिशयस्तथा तथा दोषातिरेक इति सोऽयमेवंभूतो विमर्शस्तेषां न बुध्यते, एवंभूतस्य पर्यालोचनस्य ज्ञानरूपत्वादिति / अपिच- तेऽज्ञानवादिन आत्मनोऽपि परं प्रधानमज्ञानवादमिति शासितुं उपदेष्टुं नालं न समर्थाः, तेषामज्ञानपक्षसमाश्रयणेनाज्ञत्वादिति, कुतः पुनस्ते स्वयमज्ञाः सन्तोऽन्येषांक द्वितीयोद्देशकः शिष्यत्वेनोपगतानामज्ञानवादमुपदेष्टुमलं- समर्था भवेयुरिति?। यदप्युक्तं- 'छिन्नमूलत्वात् म्लेच्छानुभाषणवत्सर्वमुप- सूत्रम् 18(45) देशादिकं तदप्ययुक्तम्, यतोऽनुभाषणमपि न ज्ञानमृते कर्तुं शक्यते, तथा यदप्युक्तं 'परचेतोवृत्तीनां दुरन्वयत्वादज्ञानमेव नियतिश्रेय इति,' तदप्यसत्, यतो भवतैवाज्ञानमेव श्रेय इत्येवं परोपदेशदानाभ्युद्यतेन परचेतोवृत्तिपरिज्ञानस्याभ्युपगमः कृत इति, वादिमतम् तथाऽन्यैरप्यभ्यधायि- आकारैरिङ्गितैर्गत्या, चेष्टया भाषितेन च। नेत्रवक्त्रविकारैश्च, गृह्यतेऽन्तर्गतं मनः॥१॥॥ 17 // 44 // तदेवं ते तपस्विनोऽज्ञानिन आत्मनः परेषां च शासने कर्तव्ये यथा न समर्थास्तथा दृष्टान्तद्वारेण दर्शयितुमाह वणे मूढे जहा जंतू, मूढे णेयाणुगामिए / दोवि एए अकोविया, तिव्वं सोयं नियच्छइ // सूत्रम् 18 // // 45 // ) वने अटव्यां यथा कश्चिन्मूढो जन्तुः प्राणी दिक्परिच्छेदं कर्तुमसमर्थः स एवंभूतो यदा परं मूढमेव नेतारमनुगच्छति तदा तौल द्वावपि अकोविदौ सम्यग्मार्गपरिज्ञानानिपुणौ सन्तौ तीव्र असा स्रोतो गहनं शोकं वा नियच्छतो निश्चयेन गच्छतः- प्राप्नुतः, अज्ञानावृतत्वात् / एवं तेऽप्यज्ञानवादिन आत्मीयं मार्ग शोभनत्वेन निर्धारयन्तः परकीयं चाशोभनत्वेन जानानाः स्वयं मूढाः सन्तः परानपि मोहयन्तीति // 18 // 45 // अस्मिन्नेवार्थे दृष्टान्तान्तरमाह // 66 // तथा च दोषा० (मु०)। 0 तेषां मते सम्यक्तया न ज्ञायते न युज्यते इति भावः। 0 वृत्तिज्ञान० (मु०)। 0 तदा द्वावपि...सम्यग्ज्ञानानिपुणौ (मु०)।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy