________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१| | // 63 // प्रथममध्ययन समयः, | द्वितीयोद्देशकः | वादिमतम एवमिति यथा मृगा अज्ञानावृता अनर्थमनेकशः प्राप्नुवन्ति, तुरवधारणे, एवमेव श्रमणाः केचित् पाखण्डविशेषाश्रिताः- | श्रुतस्कन्धः 1 एके न सर्वे, किंभूतास्ते इति दर्शयति- मिथ्या-विपरीता दृष्टिर्येषामज्ञानवादिनां नियतिवादिनां वा ते मिथ्यादृष्टयः, तथा अनार्याः आराद्याताः सर्वहेयधर्मेभ्य इति आर्याः न आर्या अनार्या अज्ञानावृतत्वादसदनुष्ठायिन इति यावत् / अज्ञानावृतत्वं च दर्शयति- अशङ्कितानि अशङ्कनीयानि सद्धर्मानुष्ठानादीनि शङ्कमानाः तथा शङ्कनीयानि अपायबहुलानि एकान्तपक्षसमाश्रय- सूत्रम् 11-12 (38-39) णानि, अशङ्किनो मृगा इव मूढचेतसस्तत्तदाऽरभन्ते यद्यदनाय संपद्यत इति ॥१०॥३७॥शङ्कनीयाशङ्कनीयविपर्यासमाह-8 नियतिधम्मपण्णवणा जा सा, तंतु संकंति मूढगा। आरंभाईन संकंति, अविअत्ता अकोविआ॥ सूत्रम् 11 // ( // 38 // ) धर्मस्य-क्षान्त्यादिदशलक्षणोपतस्य या प्रज्ञापना-प्ररूपणा, तां तु इति तामेव शङ्कन्ते असद्धर्मप्ररूपणेयमित्येवमध्यवस्यन्ति, ये पुनः पापोपादानभूताः समारम्भास्तानाशङ्कन्ते, किमिति?, यतः अव्यक्ता मुग्धाः- सहजसद्विवेकविकलाः, तथा अकोविदा अपण्डिताः- सच्छास्त्रावबोधरहिता इति // 11 // 38 // ते च अज्ञानावृता यन्नाप्नुवन्ति तदर्शनायाह- सव्वप्पगं विउक्कस्सं, सव्वं णूमं विहूणिआ। अप्पत्तिअंअकम्मंसे, एयमढे मिगे चुए।। सूत्रम् 12 / / ( / / 39 // ) सर्वत्रात्मा यस्यासौ सर्वात्मको- लोभस्तं विधूयेति संबन्धः, तथा विविध उत्कर्षो गर्वो व्युत्कर्षो- मान इत्यर्थः, तंच, तथा णूमं ति माया तां विधूय, तथा अप्पत्तियं ति क्रोधं विधूय, कषायविधूननेन च मोहनीयविधूननमावेदितं भवति, तदपगमाच्चाशेषकर्माभावः प्रतिपादितो भवतीत्याह- अकर्मांशइति न विद्यते कर्माशोऽस्येत्यकर्माश-सचाकर्माशो विशिष्ट-2 ज्ञानाद्भवति नाज्ञानादित्येतदेव दर्शयति - एनमर्थं कर्माभावलक्षणं मृग इव मृगः- अज्ञानी चुए त्ति त्यजेत्, विभक्तिपरिणामेन 7 सुधर्मानुष्ठा० (मु०)। ॐ संपद्यन्त (मु०)। 0 सर्वत्राप्यात्मा (मु०)। 0 इत्यर्थः, तथा (मु०)10 दित्येव दर्शयति (मु०)। // 63 //