SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ समयः, श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 59 // अज्ञाः सदसद्विवेकविकला अपि सन्तः पण्डितमानिनआत्मानं पण्डितं मन्तुं शीलं येषांते तथा, किमिति त एवमुच्यन्त? इति श्रुतस्कन्धः१ तदाह- यतोनिययानिययं संतमिति सुखादिकं किश्चिन्नियतिकृतं- अवश्यंभाव्युदयप्रापितं तथा अनियतं- आत्मपुरुष प्रथममध्ययन कारकालेश्वरादिप्रापितं सत् नियतिकृतमेवैकान्तेनाश्रयन्ति, अतोऽजानाना:सम्यक्सुखदुःखादिकारणं अबुद्धिका- बुद्धिरहिता द्वितीयोद्देशकः भवन्तीति, तथाहि आर्हतानां किञ्चित्सुखदुःखादि नियतित एव भवति- तत्कारणस्य कर्मणः कस्मिंश्चिदवसरे- सूत्रम् 4-5 (31-32) ऽवश्यंभाव्युदयसद्भावान्नियतिकृतमित्युच्यते, तथा किञ्चिदनियतिकृतं च- पुरुषकारकालेश्वरस्वभावकर्मादिकृतम्, तत्र नियतिकथञ्चित्सुखदुःखादेः पुरुषकारसाध्यत्वमप्याश्रीयते, यतः क्रियातः फलं भवति, क्रिया च पुरुषाकाराऽऽयत्ता वर्तते, तथा वादिमतम् चोक्तं- न दैवमिति संचिन्त्य, त्यजेदुद्यममात्मनः। अनुद्यमेन कस्तैलं, तिलेभ्यः प्राप्तुमर्हति ? // 1 // यत्तु समाने पुरुषव्यापारे / फलवैचित्र्यमुपन्यस्तंदूषणत्वेन तददूषणमेव, यतस्तत्रापिपुरुषकारवैचित्र्यमपिफलवैचित्र्यकारणं भवति, समानेवा पुरुषकारे / यः फलाभावः कस्यचिद्भवति सोऽदृष्टकृतः, तदपि चास्माभिः कारणत्वेनाश्रितमेव / तथा कालोऽपि कर्ता, यतो बकुलचम्पकाशोकपुन्नागनागसहकारादीनां विशिष्ट एव काले पुष्पफलाद्युद्धवो न सर्वदेति,यच्चोक्तं 'कालस्यैकरूपत्वाज्जगद्वैचित्र्यं न घटत' इति, तदस्मान् प्रति न दूषणम्, यतोऽस्माभिर्न काल एवैकः कर्तृत्वेनाभ्युपगम्यते अपितु कर्मापि,ततो जगद्वैचित्र्यमित्यदोषः। तथेश्वरोऽपि कर्ता,आत्मैव हि तत्र तत्रोत्पत्तिद्वारेण सकलजगद्व्यापनादीश्वरः, तस्य सुखदुःखोत्पत्तिकर्तृत्वं सर्ववादिनामविगानेन सिद्धमेव, यच्चात्र मूर्तामूर्तादिकं दूषणमुपन्यस्तं तदेवंभूतेश्वरसमाश्रयणे दूरोत्सादितमेवेति / स्वभावस्यापि // 59 // कथञ्चित्कर्तृत्वमेव, तथाहि-आत्मन उपयोगलक्षणत्वमसंख्येयप्रदेशत्वं पुद्गलानांच मूर्तत्वं धर्माधर्मास्तिकाययोर्गतिस्थित्यु मुच्यत (मु०) कारेश्वरादि (मु०)। ©ना: सुखदु०(मु०)। 0 पुरुषकारा० (मु०)। 7 वैचित्र्यं पूषणत्वेनोपव्यस्तं तद (मु०)। ॐ वैचित्र्ये कारणं (मु०)
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy