________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 60 // प्रथममध्ययन समय:, पष्टम्भकारित्वममूर्तत्वं चेत्येवमादिस्वभावापादितम्, यदपि चात्रात्मव्यतिरेकाव्यतिरेकरूपं दूषणमुपन्यस्तं तददूषणमेव,यतः श्रुतस्कन्धः१ स्वभाव आत्मनोऽव्यतिरिक्तः, आत्मनोऽपिचकर्तृत्वमभ्युपगतमेतदपिस्वभावापादितमेवेति। तथा कर्मापिकर्तृ भवत्येव,तद्धि जीवप्रदेशैः सहान्योऽन्यानुवेधरूपतया व्यवस्थितं कथञ्चिच्चात्मनोऽभिन्नम्, तद्वशाच्चात्मा नारकतिर्यमनुष्यामरभवेषु पर्यटन द्वितीयोद्देशकः सुखदुःखादिकमनुभवतीति / तदेवं नियत्यनियत्योः कर्तृत्वे युक्त्युपपन्ने सति नियतेरेव कर्तृत्वमभ्युपगच्छन्तो निर्बुद्धिका सूत्रम् 6-7 (33-34) भवन्तीत्यवसेयम् // 4 // 31 // तदेवं युक्त्या नियतिवादं दूषयित्वा तद्वादिनामपायदर्शनायाह- एव मिति पूर्वाभ्युपगम-निया संसूचकः, सर्वस्मिन्नपि वस्तुनि नियतानियते सत्येके नियतमेवावश्यंभाव्येव कालेश्वरादेर्निराकरणेन निर्हेतुकतया नियति- वादिमतम् वादमाश्रिताः, तुरवधारणे, त एव नान्ये, किंविशिष्टाः पुनस्ते इति दर्शयति- युक्तिकदम्बकाद्बहिस्तिष्ठन्तीति पार्श्वस्थाः परलोकक्रियापार्श्वस्थावा, नियतिपक्षसमाश्रयणात्परलोकक्रियावैयर्थ्यम्, यदिवा-पाश इव पाशः कर्मबन्धनम्, तच्चेह युक्तिविकलनियतिवादप्ररूपणं तत्र स्थिताः पाशस्थाः, अन्येऽप्येकान्तवादिनः कालेश्वरादिकारणिकाः पार्श्वस्थाः पाशस्था वा द्रष्टव्या इति, ते पुनर्नियतिवादमाश्रित्यापि, भूयो विविधं विशेषेण वा प्रगल्भिता विप्रगल्भिता धाष्टोपेता: परलोकसाधिकासु क्रियासु प्रवर्तन्ते, धाष्टाश्रयणं तु तेषां नियतिवादाश्रयणे सत्येव पुनरपि तत्प्रतिपन्थिनीषु क्रियासु प्रवर्तनादिति, ते पुनः एवमप्युपस्थिताः परलोकसाधिकासु क्रियासु प्रवृत्ता अपि सन्तो नात्मदुःखविमोक्षकाः असम्यक्-प्रवृत्तत्वान्नात्मानं दुःखाद्विमोचयन्ति / गता नियतिवादिनः॥५॥३२॥ साम्प्रतमज्ञानिमतं दूषयितुं दृष्टान्तमाह जविणो मिगा जहा संता, परिताणेण वजिआ। असंकियाई संकंति, संकिआई असंकिणो॥सूत्रम् 6 // ( // 33 // ) (c) नियतिमे० (मु०)। 0 इत्यादि 'ते' पुनर्नि.....'प्रगल्भिता' धाोपगताः....साधकासु० (मु०)। // 60 //