SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ समयः, श्रीसूत्रकृताङ्गं वा?,यदि सचेतनमेकस्मिन् काये चैतन्यद्वयापत्तिः, अथाचेतनंतथा सति कुतस्तस्य पाषाणखण्डस्येवास्वतन्त्रस्य सुखदुःखो- श्रुतस्कन्धः 1 नियुक्ति प्रथममध्ययन श्रीशीला० त्पादनं प्रति कर्तृत्वमिति, एतच्चोत्तरत्र व्यासेन प्रतिपादयिष्यत इत्यलं प्रसङ्गेन / तदेवं सुखं सैद्धिकं सिद्धौ- अपवर्गलक्षणायां वृत्तियुतम् भवं यदिवा दुःखं-असातोदयलक्षणमसैद्धिकं सांसारिकम्, यदिवा उभयमप्येतत्सुखंदुःखं वा, स्रक्चन्दनाङ्गनाद्युपभोगक्रिया- द्वितीयोद्देशकः श्रुतस्कन्धः सिद्धौ भवंतथा कशाताडनाङ्कनादिक्रियासिद्धौ च भवं सैद्धिकमिति, तथा असैद्धिकं सुखमान्तरमानन्दरुपामाकस्मिकमनव- सूत्रम् 4-5 // 58 // (31-32) धारितबाह्यनिमित्तं एवं दुःखमपिज्वरशिरोऽर्तिशूलादिरूपमङ्गोत्थमसैद्धिकम् / / 2 // 29 // तदेतदुभयमपिन स्वयं पुरुषकारेण नियतिकृतं नाप्यन्येन केनचित् कालादिना कृतं वेदयन्ति अनुभवन्ति पृथग्जीवाःप्राणिन इति / कथं तर्हि तत्तेषामभूत् ? इति नियतिवादी वादिमतम् स्वाभिप्रायमाविष्करोति-संगइयंति सम्यक्स्वपरिणामेन गति:- यस्य यदा यत्र यत्सुखदुःखानुभवनं सासंगतिः-नियतिस्तस्यां भवं सांगतिकम्, यतश्चैवं न पुरुषकारादिकृतं सुखदुःखादि अतस्तत्तेषां प्राणिनां नियतिकृतं सांगतिकमित्युच्यते, इह अस्मिन् / ®सुखदुःखानुभववादे एकेषां वादिना आख्यातं तेषामयमभ्युपगमः तथा चोक्तं- प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा। भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः॥१॥॥३॥ 30 // एवं श्लोकद्वयेन नियतिवादिमतमुपन्यस्यास्योत्तरदानायाह एवमेयाणि जपंता, बाला पंडिअमाणिणो। निययानिययं संतं, अयाणंता अबुद्धिया ।सूत्रम् 4 // ( // 31 // ) एवमेग उ पासत्था, ते भुजो विप्पगब्भिआ। एवं उवट्ठिआ संता, ण ते दुक्खविमोक्खया।सूत्रम् 5 // // 32 // ) एवं इति अनन्तरोक्तस्योपप्रदर्शने एतानि पूर्वोक्तानि नियतिवादाश्रितानि वचनानि जल्पन्तः अभिदधतो बाला इव बाला // 58 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy