________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 57 // श्रुतस्कन्धः१ प्रथममध्ययन समयः, द्वितीयोद्देशकः सूत्रम् 2-3 (29-30) नियतिवादः नसयंकडं अण्णेहिं, वेदयंति पुढो जिया। संगइअंतंतहा तेसिं, इहमेगेसि आहिअं॥सूत्रम् 3 // ( // 30 // ) यत् तैः प्राणिभिरनुभूयते सुखं दुःखं स्थानविलोपनं वा न तत् स्वयं आत्मना पुरुषकारेण कृतं निष्पादितं दुःखमिति कारणे कार्योपचारात् दुःखकारणमेवोक्तम्, अस्य चोपलक्षणत्वात् सुखाद्यपि ग्राह्यम्, ततश्चेदमुक्तं भवति-योऽयं सुखदुःखानुभवः स पुरुषकारकृतकारणजन्यो न भवतीति, तथा कुतः अन्येन कालेश्वरस्वभावकर्मादिना च कृतं भवेत् ण मित्यलङ्कारे तथाहि- यदि पुन: पुरुषकारकृतं सुखाद्यनुभूयेत ततः सेवकवणिक्कर्षकादीनांसमाने पुरुषकार सति फलप्राप्तिवैसदृश्यं फलाप्राप्तिश्चन भवेत्, कस्यचित्तु सेवादिव्यापाराभावेऽपि विशिष्टफलावाप्तिदृश्यत इति, अतोन पुरुषकारात्किञ्चिदासाद्यते, किंतर्हि?, नियतेरेवेति, एतच्च द्वितीयश्लोकान्तेऽभिधास्यते नापि कालः कर्ता, तस्यैकरूपत्वाज्जगति फलवैचित्र्यानुपपत्तेः, कारणभेदे हि कार्यभेदो भवति नाभेदे, तथाहि-अयमेव हि भेदो भेदहेतुर्वा यदुत विरुद्धधर्माध्यासः कारणभेदश्च, तथेश्वरकर्तृकेऽपिसुखदुःखेन भवतः, यतोऽसावीश्वरो मूर्तोऽमूर्तो वा?, यदि मूर्तस्ततः प्राकृतपुरुषस्येव सर्वकर्तृत्वाभावः, अथामूर्तस्तथा सत्याकाशस्येवसुतरां निष्क्रियत्वम्, अपिच-यद्यसौरागादिमांस्ततोऽस्मदाद्यव्यतिरेकाद्विश्वस्याकतैव, अथासौ. विगतरागस्ततस्तत्कृतंसुभगदुर्भगेश्वरदरिद्रादि जगद्वैचित्र्यंन घटांप्राञ्चति, ततोनेश्वरः कर्तेति, तथा स्वभावस्यापिसुखदुःखादिकर्तृत्वानुपपत्तिः, यतोऽसौ स्वभावः पुरुषाद्भिन्नोऽभिन्नो वा?, यदि भिन्नो न पुरुषाश्रिते सुखदुःखे कर्तुमलम्, तस्माद्भिन्नत्वादिति, नाप्यभिन्नः अभेदे पुरुष एव स्यात्, तस्य चाकर्तृत्वमुक्तमेव ।नापि कर्मणःसुखदुःखं प्रति कर्तृत्वं घटते, यतस्तत्कर्म पुरुषाद्भिन्नमभिन्नं वा भवेत्?, अभिन्नं चेत्पुरुषमात्रतापत्तिः कर्मणः, तत्र चोक्तो दोषः, अथ भिन्नं तत्किं सचेतनमचेतनं (c) यदि पुरुष० (मु०)। 7 पुरुषाकारे (मु०)। 0 र्वा घटते यदुत (मु०)। // 57 //