________________ प्रथममध्ययन समय:, श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 56 // तदेव संसारचक्रवालभ्रमणगर्भान्वेषणं प्रतिपाद्यते / परम्परसूत्रं तु 'बुज्झेज्जे' त्यादि, तेन च सहास्यायं सम्बन्ध:- तत्र श्रुतस्कन्धः१ बुध्येतेत्येतत् प्रतिपादितम्, इहापि यदाख्यातं नियतिवादिभिस्तद्ध्येत, इत्येवं मध्यसूत्रैरपि यथासंभवं सम्बन्धो लगनीय इति तदेवं पूर्वोत्तरसम्बन्धसम्बद्धस्यास्य सूत्रस्याधुनाऽर्थः प्रतन्यते-पुनः शब्दः पूर्ववादिभ्यो विशेषं दर्शयति, नियतिवादिनां द्वितीयोद्देशकः पुनरेकेषामेतदाख्यातम्, अत्र च 'अविवक्षितकर्मका अपि अकर्मका भवन्ती'ति ख्यातेर्धातो वे निष्ठाप्रत्ययस्तद्योगे कर्तरि | सूत्रम् 2-3 (29-30) षष्ठी ततश्चायमर्थः-तैर्नियतिवादिभिः पुनरिदमाख्यातम्, तेषामयमाशय इत्यर्थः, तद्यथा- उपपन्ना युक्त्या घटमानका इति,अनेन | नियतिवादः च पञ्चभूततज्जीवतच्छरीरवादिमतमपाकृतं भवति, युक्तिस्तुलेशतः प्राग्दर्शितैव प्रदर्शयिष्यतेच, पृथक् पृथक् नारकादिभवेषु / शरीरेषु वेति, अनेनाप्यात्माद्वैतवादिनिरासोऽवसेयः, के पुनस्ते पृथगुपपन्नाः?, तदाह- जीवाः प्राणिनः सुखदुःखभोगिनः, अनेन च पञ्चस्कन्धातिरिक्तजीवाभावप्रतिपादकबौद्धमतापक्षेपः कृतो द्रष्टव्यः, तथा ते जीवाः 'पृथक्' पृथक् प्रत्येकदेहे व्यवस्थिताः सुखं दुःखं च वेदयन्ति अनुभवन्ति, न वयं प्रतिप्राणि प्रतीतं सुखदुःखानुभवं निलुमहे, अनेन चाकर्तृवादिनो निरस्ता भवन्ति, अकर्तर्यविकारिण्यात्मनि सुखदुःखानुभवानुपपत्तेरिति भावः। तथैतदप्यस्माभि पलप्यते 'अदुवे' ति अथवा ते प्राणिनः सुखं दुःखंचानुभवन्तो, विलुप्यन्ते उच्छिद्यन्ते स्वायुषः प्रच्याव्यन्ते स्थानात्स्थानान्तरं संक्राम्यन्त इत्यर्थः, ततश्चौपपातिकत्वमप्यस्माभिस्तेषां न निषिध्यते इति श्लोकार्थः॥१॥ 28 // तदेवं पञ्चभूतास्तित्वादिवादिनिरासं कृत्वा यत्तैर्नियतिवादिभिराश्रीयते तच्छ्लोकद्वयेन दर्शयितुमाह नसयं कडं दुक्खं, कओ अन्नकडं च णं? / सुहं वा जइ वा दुक्खं, सेहियं वा असेहियं / / सूत्रम् 2 // ( // 29 // ) 0 तथैतदस्माभि० (मु०)। (r) चानुभवन्ति (मु०)। 0 न तं सयं (मु०)।