________________ समयः, श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 55 // उच्चावचानी ति अधमोत्तमानि नानाप्रकाराणि वासस्थानानि गच्छन्तीति, गच्छन्तो भ्रमन्तो गर्भाद्गर्भमेष्यन्ति यास्यन्त्यनन्तशो श्रुतस्कन्धः१ निर्विच्छेदमिति ब्रवीमीति सुधर्मस्वामी जम्बूस्वामिनं प्रत्याह- ब्रवीम्यहं तीर्थंकराज्ञया,न स्वमनीषिकया, स चाहं ब्रवीमि / प्रथममध्ययन येन मया तीर्थङ्करसकाशाच्छूतम्,एतेन च क्षणिकवादिनिरासो द्रष्टव्यः // 27 // इति प्रथमोद्देशकः समाप्तः॥ द्वितीयोद्देशकः सूत्रम् 1 (28) नियतिवादः ॥प्रथमाध्ययने द्वितीयोद्देशकः॥ उक्त: प्रथमोद्देशकस्तदनु द्वितीयोऽभिधीयते, तस्य चायमभिसम्बन्धः- इहानन्तरोद्देशके स्वसमयपरसमयप्ररूपणा कृता, इहाप्यध्ययनार्थाधिकारत्वात्सैवाभिधीयते, यदिवाऽनन्तरोद्देशके भूतवादादिमतं प्रदर्श्य तन्निराकरणं कृतम्, तदिहापि तदवशिष्टनियतिवाद्यादिमिथ्यादृष्टिमतान्युपदर्श्य निराक्रियन्ते, अथवा प्रागुद्देशकेऽभ्यधायि यथा 'बन्धनं बुध्येत तच्च त्रोटयेदिति' तदेवं च बन्धनं नियतिवाद्याद्यभिप्रायेण न विद्यत इति प्रदर्श्यते-तदेवमनेकसम्बन्धेनायातस्यास्योद्देशकस्य चत्वार्यनुयोगद्वाराणि व्यावर्ण्य सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं___ आघायं पुण एगेसिं, उववण्णा पुढो जिया / वेदयंति सुहं दुक्खं, अदुवा लुप्पंति ठाणउ / / सूत्रम् 1 // ( // 28 // ) अस्य चानन्तरपरम्परसूत्रः सम्बन्धो वक्तव्यः,तत्रानन्तरसूत्रसम्बन्धोऽयं- इहानन्तरसूत्रे इदमभिहितम्,यथा पञ्चभूतस्कन्धादिवादिनो मिथ्यात्वोपहतान्तरात्मानोऽसद्हाभिनिविष्टाः परमार्थावबोधविकला:सन्तः संसारचक्रवाले व्याधिमृत्युजराकुले // 55 // उच्चावचानिस्थानानि गच्छन्तो गर्भमेष्यन्त्यन्वेषयन्ति वाऽनन्तश' इति, तदिहापिनियत्यज्ञानिज्ञानचतुर्विधकर्मापचयवादिनां (r) नकर्मापचय प्र०।