________________ श्रुतस्कन्धः१ प्रथममध्ययन श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 49 // समयः, प्रथमोद्देशक: सूत्रम् 18 क्षणक्षयसमाधानम् ते हि बौद्धा यथाऽऽत्मषष्ठवादिनः साङ्ख्यादयो भूतव्यतिरिक्तमात्मानमभ्युपगतवन्तो यथा च चार्वाका भूताव्यतिरिक्तं चैतन्याख्यमात्मानमिष्टवन्तस्तथा नैवाहुः नैवोक्तवन्तः, तथा हेतुभ्यो जातो हेतुकः कायाकारपरिणतभूतनिष्पादित इति यावत् तथाऽहेतुकोऽनाद्यपर्यवसितत्वान्नित्य इत्येवंतमात्मानं ते बौद्धा नाभ्युपगतवन्त इति // 17 // तथाऽपरे बौद्धाश्चातुर्धातुकमिदं जगदाहुरित्येतद्दर्शयितुमाह पुढवी आऊ तेऊ य, तहा वाऊ य एगओ। चत्तारि धाउणो रूवं, एवमाहंसु आवरे / / सूत्रम् 18 // * पृथिवी धातुरापश्च धातुस्तथा तेजो वायुश्चेति, धारकत्वात्पोषकत्वाच्च धातुत्वमेषाम्, एगओ त्ति यदैते चत्वारोऽप्येकाकारपरिणति बिभ्रति कायाकारतया तदा जीवव्यपदेशमश्नुवते, तथा चोचुः- चतुर्धातुकमिदं शरीरं, न तद्व्यतिरिक्त आत्माऽस्ती ति, एवमाहंसु यावरेत्ति अपरे बौद्धविशेषा एवं 'आहुः' अभिहितवन्त इति, क्वचिद् 'जाणगा' इति पाठः, तत्राप्ययमों 'जानका' ज्ञानिनः किल वयमित्यभिमानाग्निदग्धाः सन्त एवमाहुरिति संबन्धनीयम् / अफलवादित्वं चैतेषां क्रियाक्षण एव कर्तुः सर्वात्मना नष्टत्वात् क्रियाफलेन सम्बन्धाभावादवसेयम्, सर्व एव वा पूर्ववादिनोऽफलवादिनो द्रष्टव्याः,कैश्चिदात्मनो नित्यस्याविकारिणोऽभ्युपगतत्वात् कैश्चित्त्वात्मन एवानभ्युपगमादिति / अत्रोत्तरदानार्थं प्राक्तन्येव नियुक्तिगाथा 'को वेए' इत्यादि। व्याख्यायते, यदि पञ्चस्कन्धव्यतिरिक्तः कश्चिदात्माख्यः पदार्थो न विद्यते ततस्तदभावात्सुखदुःखादिकं कोऽनुभवतीत्यादिगाथा प्राग्वव्याख्येयेति,तदेवमात्मनोऽभावाद्योऽयं स्वसंविदितः सुखदुःखानुभवः स कस्य भवत्विति चिन्त्यताम्, ज्ञानस्कन्धस्यायमनुभव इति चेत्, न, तस्यापि क्षणिकत्वात्, ज्ञानक्षणस्य चातिसूक्ष्मत्वात् सुखदुःखानुभवाभावः, क्रियाफलवतोश्च 7 ज्ञानिनो वयं किलेत्यभि० (मु०)।७ पूर्वतन्येव नियुक्तिगाथा को वेए इत्येषा (प्र०)। // 49 //