________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 श्रुतस्कन्धः१ प्रथममध्ययनं समयः, प्रथमोद्देशकः सूत्रम् 17 क्षणिकवादः // 48 // नित्यता, अथ तस्य तत्स्वभावत्वात्ता एवार्थक्रिया भूयो भूयो द्वितीयादिक्षणेष्वपि कुर्यात्, तदसाम्प्रतम्, कृतस्य करणाभावादिति, किंच-द्वितीयादिक्षणसाध्या अप्यर्थक्रिया:प्रथमक्षण एव प्राप्नुवन्ति, तस्य तत्स्वभावत्वात्, अतत्स्वभावत्वे च तस्यानित्यत्वापत्तिरिति / तदेवं नित्यस्य क्रमयोगपद्याभ्यामर्थक्रियाविरहान्नस्वकारणेभ्यो नित्यस्योत्पाद इति / अथानित्यस्वभावः समुत्पद्यते, तथा च सति विघ्नाभावादायातमस्मदुक्तमशेषपदार्थजातस्य क्षणिकत्वम्, तथा चोक्तं- जातिरेव हि भावानां, विनाशे हेतुरिष्यते / यो जातश्च न च ध्वस्तो, नश्येत्पश्चात्स केन वः, ॥१॥ननु च सत्यप्यनित्यत्वे यस्य यदा विनाशहेतु-8 सद्भावस्तस्य तदा विनाशः, तथा चस्वविनाशकारणापेक्षाणामनित्यानामपि पदार्थानां न क्षणिकत्वमिति, एतच्चानुपासितगुरोर्वचः, तथाहि- तेन मुद्रादिकेन विनाशहेतुना घटादेः किं क्रियते?, किमत्र प्रष्टव्यं? अभावः क्रियते, अत्र च प्रष्टव्यो देवानांप्रियः, अभाव इति किं पर्युदासप्रतिषेधोऽयमुत प्रसज्यप्रतिषेध इति?, तत्र यदिपर्युदासस्ततोऽयमों-भावादन्योऽभावो भावान्तरं- घटात्पटादिः सोऽभाव इति, तत्र भावान्तरे यदि मुद्रादिव्यापारो न तर्हि तेन किञ्चिद् घटस्य कृतमिति, अथ प्रसज्यप्रतिषेधस्तदाऽयमों-विनाशहेतुरभावं करोति, किमुक्तं भवति?- भावं न करोतीति, ततश्च क्रियाप्रतिषेध एव कृतः। स्यात्, न च घटादेः पदार्थस्य मुद्रादिना करणम्, तस्य स्वकारणैरेव कृतत्वात्, अथ भावाभावोऽभावस्तं करोतीति, तस्य तुच्छस्य नीरूपत्वात् कुतस्तत्र कारकाणां व्यापारः?, अथ तत्रापि कारकव्यापारो भवेत् खरशृङ्गादावपि व्याप्रियेरन् कारकाणीति। तदेवं विनाशहेतोरकिञ्चित्करत्वात् स्वहेतुत एवानित्यताक्रोडीकृतानां पदार्थानामुत्पत्तेर्विघ्नहेतोश्चाभावात् क्षणिकत्वमवस्थितमिति / तुशब्दः पूर्ववादिभ्योऽस्य व्यतिरेकप्रदर्शकः, तमेव श्लोकपश्चार्धेन दर्शयति-अण्णो अणण्णो इति 0 अप्याः (मु०)। // 48 //