________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 47 // श्रुतस्कन्धः१ प्रथममध्ययन समयः, प्रथमोद्देशक: सूत्रम् 17 क्षणिकवादः 932 चेति वेदना वेदनास्कन्धः 2 रूपविज्ञानं रसविज्ञानमित्यादि विज्ञानं विज्ञानस्कन्धः 3 संज्ञास्कन्धः संज्ञानिमित्तोद्वाहणात्मकः प्रत्ययः 4 संस्कारस्कन्धः पुण्यापुण्यादिधर्मसमुदाय इति 5 / न चैतेभ्यो व्यतिरिक्तः कश्चिदात्माख्यः पदार्थोऽध्यक्षेणाध्यवसीयते, तदव्यभिचारिलिङ्गग्रहणाभावात्,नाप्यनुमानेन, न च प्रत्यक्षानुमानव्यतिरिक्तमर्थाविसंवादि प्रमाणान्तरमस्तीत्येवं बाला इव बाला- यथाऽवस्थितार्थापरिज्ञानात् बौद्धाः प्रतिपादयन्ति, तथा ते स्कन्धाः क्षणयोगिनः परमनिरुद्धः कालः | लक्षणःक्षणेन योग:- संबन्धः क्षणयोगःस विद्यते येषां ते क्षणयोगिनः, क्षणमात्रावस्थायिन इत्यर्थः, तथा च तेऽभिदधतिस्वकारणेभ्यः पदार्थ उत्पद्यमानःकिं विनश्वरस्वभाव उत्पद्यतेऽविनश्वरस्वभावो वा?, यद्यविनश्वरस्वभावस्ततस्तव्यापिन्याः। क्रमयोगपद्याभ्यामर्थक्रियाया अभावात् पदार्थस्यापि व्याप्यस्याभाव: प्रसजति, तथाहि-यदेवार्थक्रियाकारितदेव परमार्थ / सदिति, स च नित्योऽर्थक्रियायां प्रवर्तमानः क्रमेण वा प्रवर्तेत यौगपद्येन वा?, न तावत्क्रमेण, यतो होकस्या अर्थक्रियायाः काले तस्यापरार्थक्रियाकरणस्वभावो विद्यते वा न वा?, यदि विद्यते किमिति क्रमकरणं?, सहकार्यपेक्षयेति चेत्, तेन सहकारिणा तस्य कश्चिदतिशयः क्रियते वानवा?, यदि क्रियते किं पूर्वस्वभावपरित्यागेनापरित्यागेन वा?, यदि परित्यागेन ततोऽतादवस्थ्यापत्तेरनित्यत्वम्, अथ पूर्वस्वभावापरित्यागेन ततोऽतिशयाभावात्किंसहकार्यपेक्षया?, अथ अकिञ्चित्करोऽपि विशिष्टकार्यार्थमपेक्ष्यते,तदयुक्तम्, यतः- अपेक्षेत परं कश्चिद्यदि कुर्वीत किञ्चन / यदकिञ्चित्करं वस्तु, किं केनचिदपेक्ष्यते?॥१॥ अथ तस्यैकार्थक्रियाकरणकालेऽपरार्थक्रियाकरणस्वभावो न विद्यते, तथा च सति स्पष्टैव नित्यताहानिः, अथासौ नित्यो यौगपद्येनार्थक्रियां कुर्यात् तथा सति प्रथमक्षण एवाशेषार्थक्रियाणां करणात् द्वितीयक्षणेऽकर्तृत्वमायातम्, तथा च सैवा© यद्यविनश्वरस्तत० (मु०)। (r) परमार्थतः सदिति (मु०)। 0 त्वेत् न तेन (प्र०)। 0 क्रियते न वा (मु०)। 0 ०पेक्षते (मु०)। // 47 //