SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 50 // श्रुतस्कन्धः 1 प्रथममध्ययन समयः, प्रथमोद्देशकः सूत्रम् 18 क्षणक्षयसमाधानम् क्षणयोरत्यन्तासंगतेः कृतनाशाकृताभ्यागमापत्तिरिति, ज्ञानसंतान एकोऽस्तीति चेत्, तस्यापि संतानिव्यतिरिक्तस्याभावाद्यत्किञ्चिदेतत्, पूर्वक्षण एव उत्तरक्षणे वासनामाधाय विनङ्यतीति चेत्, तथा चोक्तं- यस्मिन्नेव हि संताने, आहिता कर्मवासना। फलं तत्रैव संधत्ते, कर्पासे रक्तता यथा ॥१॥अत्रापीदं विकल्प्यते-सा वासना किं क्षणेभ्यो व्यतिरिक्ताऽव्यतिरिक्ता वा?, यदि व्यतिरिक्ता वासकत्वानुपपत्तिः, अथाव्यतिरिक्ता क्षणवत् क्षणक्षयित्वं तस्याः, तदेवमात्माभावे सुखदुःखानुभवाभावः स्याद्, अस्ति च सुखदुःखानुभवो, अतोऽस्त्यात्मेति, अन्यथा पञ्चविषयानुभवोत्तरकालमिन्द्रियज्ञानानांस्वविषयादन्यत्रा वृत्तेः संकलनाप्रत्ययो न स्यात्, आलयविज्ञानाद्भविष्यतीति चेदात्मैव तर्हि संज्ञान्तरेणाभ्युपगत इति / तथा बौद्धागमोऽप्या*त्मप्रतिपादकोऽस्ति, सचायं- इत एकनवते कल्पे, शक्त्या में पुरुषो हतः / तेन कर्मविपाकेन, पादे विद्धोऽस्मि भिक्षवः! // 1 // तथा कृतानि कर्माण्यतिदारुणानि, तनूभवन्त्यात्मनि गर्हणेन / प्रकाशनात्संवरणाच्च तेषामत्यन्तमूलोद्धरणं वदामि ॥१॥इत्येवमादि, तथा यदुक्तं क्षणिकत्वं साधयता यथा ‘पदार्थः कारणेभ्य उत्पद्यमानो नित्यः समुत्पद्यतेऽनित्यो वे' त्यादि, तत्र नित्येऽप्रच्युतानुत्पन्नस्थिरैकस्वभावे कारकाणांव्यापाराभावादतिरिक्ता वाचोयुक्तिरिति नित्यत्वपक्षानुत्पत्तिरेव, यच्च नित्यपक्षे भवताऽभिहितं 'नित्यस्य न क्रमेणार्थक्रियाकारित्वं नापि यौगपद्येनेति' तत्क्षणिकत्वेऽपि समानम्, यतःक्षणिकोऽप्यर्थक्रियायां प्रवर्तमानः क्रमेण योगपद्येन वाऽवश्यं सहकारिकारणसव्यपेक्ष एव प्रवर्तते, यतः 'सामग्री जनिका, न ोकं किञ्चिदिति तेन च सहकारिणा न तस्य कश्चिदतिशयः कर्तुं पार्यते, क्षणस्याविवेकत्वेनानाधेयातिशयत्वात्, क्षणानां च परस्परोपकारकोपकार्यत्वानुपपत्तेः सहकारित्वाभावः, सहकार्यनपेक्षायां च प्रतिविशिष्टकार्यानुपपत्तिरिति / तदेवमनित्य एव कारणेभ्यः पदार्थः O सन्ताने (प्र०)। // 50 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy