________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 42 // समयः, व्यतिरिक्तस्य परलोकयायिनः सारभूतस्य साधितत्वात्केवलं भवतो वाचालतां प्रख्यापयन्ति इत्यलमतिप्रसङ्गेन / शेषं सूत्रं श्रुतस्कन्धः१ विवियतेऽधुनेति / तदेवं तेषां' भूतव्यतिरिक्तात्मनिह्नववादिनां योऽयं लोकः'चतुर्गतिकसंसारो भवाद्भवान्तरगतिलक्षण: प्रथममध्ययनं प्राक्प्रसाधितः सुभगदुर्भगसुरूपमन्दरूपेश्वरदरिद्रादिगत्यां जगद्वैचित्र्यलक्षणश्चस एवंभूतो लोकस्तेषां कुतो भवेत्? कयोपपत्त्या प्रथमोद्देशक: घटेत? आत्मनोऽनभ्युपगमात्, न कथञ्चिदित्यर्थः, ते च' नास्तिकाः परलोकयायिजीवाऽनभ्युपगमेन पुण्यपापयोश्चा- प्रथमोद्देशकः सूत्रम् 14 भावमाश्रित्य यत्किञ्चनकारिणोऽज्ञानरूपात्तमसः सकाशादन्यत्तमो यान्ति, भूयोऽपि ज्ञानावरणादिरूपं महत्तरं तमः तज्जीवसंचिन्वन्तीत्युक्तं भवति, यदिवा- तम इव तमो-दुःखसमुद्धातेन सदसद्विवेकप्रध्वंसित्वाद्यातनास्थानंतस्माद्-एवंभूतात्तमसः तच्छरीरवादि परतरं तमो यान्ति, सप्तमनरकपृथिव्यांरौरवमहारौरवकालमहाकालाप्रतिष्ठानाख्यं नरकावासं यान्तीत्यर्थः / किमिति?, यतस्ते, मन्दा जडा मूर्खाः, सत्यपि युक्त्युपपन्ने आत्मन्यसदभिनिवेशात्तदभावमाश्रित्य प्राण्युपमर्दकारिणि विवेकिजननिन्दिते आरम्भे- व्यापारे निश्चयेन नितरां वा श्रिताः- सम्बद्धाः, पुण्यपापयोरभाव इत्याश्रित्य परलोकनिरपेक्षतयाऽऽरम्भनिश्रिता इति / तथा तज्जीवतच्छरीरवादिमतं नियुक्तिकारोऽपि निराचिकीर्षुराह-पंचण्ह'मित्यादिगाथा प्राग्वदत्रापि॥३३॥साम्प्रतमकारकवादिमतमाश्रित्यायमनन्तर (रोक्त) श्लोको भूयोऽपि व्याख्यायते- ये एते अकारकवादिन आत्मनोऽमूर्तत्वनित्यत्वसर्वव्यापित्वेभ्यो हेतुभ्यो निष्क्रियत्वमेवाभ्युपपन्नास्तेषां य एष लोको' जरामरणशोकाक्रन्दनहर्षादिलक्षणो नरकतिर्यमनुष्यामरगतिरूपः सोऽयमेवंभूतो निष्क्रिये सत्यात्मन्यप्रच्युतानुत्पन्नस्थिरैकस्वभावे 'कुतः'कस्माद्धेतोः स्यात्?,न कथञ्चित्कुतश्चि // 42 // त्स्यादित्यर्थः, ततश्च दृष्टेष्टबाधारूपात्तमसोऽज्ञानरूपात्ते तमोऽन्तरं निकृष्टं यातनास्थानं यान्ति, किमिति?, यतो 'मन्दा' (r) दारिद्रा० (मु०)।