SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ समयः, नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 41 // बाप्त जीव यत्र यत्राऽऽदानादेयसद्धावस्तत्र तत्र विद्यमान आदाता- ग्राहको दृष्टः, यथा संदंशकायस्पिण्डयोस्तद्भिन्नोऽयस्कार इति, श्रुतस्कन्ध:१ यश्चात्रेन्द्रियैः करणैर्विषयाणामादाता- ग्राहकः स तद्भिन्न आत्मेति, तथा विद्यमानभोक्तृकमिदंशरीरम्, भोग्यत्वादोदनादिवत्, प्रथममध्ययन अत्र च कुलालादीनां मूर्तत्वानित्यत्वसंहतत्वदर्शनादात्मापि तथैव स्यादिति धर्मिविशेषविपरीतसाधनत्वेन विरुद्धाशङ्का न प्रथमोद्देशकः विधेया, संसारिण आत्मनः कर्मणा सहान्योऽन्यानुबन्धतः कथञ्चिन्मूर्तत्वाद्यभ्युपगमादिति, तथा यदुक्तं 'नास्ति सत्त्वा / प्रथमोद्देशक: औपपातिका' इति, तदप्ययुक्तम्, यतस्तदहर्जातबालकस्य यः स्तनाभिलाषः सोऽन्याभिलाषपूर्वकः, अभिलाषत्वात्, सूत्रम् 14 कुमाराभिलाषवत्, तथा बालविज्ञानमन्यविज्ञानपूर्वकं विज्ञानत्वात्, कुमारविज्ञानवत्, तथाहि-तदहर्जातबालकोऽपियावत्स तच्छरीरवादि एवायं स्तन इत्येवं नावधारयति तावन्नोपरतरुदितो मुखमर्पयति स्तने इति, अतोऽस्ति बालके विज्ञानलेशः, सचान्यविज्ञानपूर्वकः,तच्चान्यद्विज्ञानं भवान्तरविज्ञानम्, तस्मादस्ति सत्त्व औपपातिक इति / तथा यदभिहितं- विज्ञानघन एवैतेभ्यो भूतेभ्यः / समुत्थाय तान्येवानु विनश्यतीति, तत्राप्ययमर्थो- 'विज्ञानघनों विज्ञानपिण्ड आत्मा भूतेभ्य उत्थाये' ति प्राक्तनकर्मवशात्तथाविधकायाकारपरिणतभूतसमुदाये तद्वारेण स्वकर्मफलमनुभूय पुनस्तद्विनाशे आत्मापि तदनु तेनाकारेण विनश्यपर्यायान्तरेणोत्पद्यते, न पुनस्तैरेव सह विनश्यतीति / तथा यदुक्तं- 'धर्मिणोऽभावात्तद्धर्मयोः पुण्यपापयोरभाव' इति, तदप्यसमीचीनम्, यतो धर्मी तावदनन्तरोक्तयुक्तिकदम्बकेन साधितः, तत्सिद्धौ च तद्धर्मयोः पुण्यपापयोरपि सिद्धिरवसेया जगद्वैचित्र्यदर्शनाच्च। यत्तु स्वभावमाश्रित्योपलशकलं दृष्टान्तत्वेनोपन्यस्तं तदपि तद्भोक्तृकर्मवशादेव तथा तथा संवृत्तमिति दुर्निवारः पुण्यापुण्य // 41 // सद्भाव इति / येऽपि बहवः कदलीस्तम्भादयो दृष्टान्ता आत्मनोऽभावसाधनायोपन्यस्ताः तेऽप्यभिहितनीत्याऽऽत्मनो भूतOणते भूत० (मु०)। 0 विनश्यापरपर्या० (मु०)। 0 नन्तरोक्तिक० (मु०)।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy