________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 40 // तज्जीव कर्तृत्वं तस्य नास्तीत्येतद्दर्शयति-सव्वं कुव्वं ण विज्जइ त्ति सर्वां परिस्पन्दात्मिकां देशाद्देशान्तरप्राप्तिलक्षणां क्रियां कुर्वन्नात्मा श्रुतस्कन्धः१ न विद्यते, सर्वव्यापित्वेनामूर्तत्वेन चाकाशस्येवात्मनो निष्क्रियत्वमिति, तथा चोक्तं-अकर्ता निर्गुणो भोक्ता, आत्मा साङ्ख्य- प्रथममध्ययनं समयः, निदर्शने इति / एवं अनेन प्रकारेणात्माऽकारक इति, ते सांख्याः, तुशब्दः पूर्वेभ्यो व्यतिरेकमाह, ते पुनः साङ्ख्या एवं प्रगल्भिताः प्रथमोद्देशकः प्रगल्भवन्तो धाय॑वन्तःसन्तो भूयो भूयस्तत्र तत्र प्रतिपादयन्ति, यथा- प्रकृतिः करोति, पुरुष उपभुङ्क्ते, तथा बुद्ध्यध्यवसितमर्थं प्रथमोद्देशक: सूत्रम् 14 पुरुषश्चेतयते इत्याद्यकारकवादिमतमिति // 13 // साम्प्रतं तज्जीवतच्छरीराकारकवादिनोर्मतं निराचिकीर्षुराह - जे ते उ वाइणो एवं, लोए तेसिंकओ सिया?। तमाओ ते तमंजंति, मंदा आरंभनिस्सिया ॥सूत्रम् 14 // तच्छरीरवादि तत्र ये तावच्छरीराव्यतिरिक्तात्मवादिनः एव मिति पूर्वोक्तया नीत्या भूताव्यतिरिक्तमात्मानमभ्युपगतवन्तस्ते निराक्रियन्ते तत्र यत्तैस्तावदुक्तं- यथा न शरीरादिन्नोऽस्त्यात्मे ति, तदसाम्प्रतम्, यतस्तत्प्रसाधकं प्रमाणमस्ति, तच्चेदं-विद्यमानकर्तृकमिदं शरीरम्, आदिमत्प्रतिनियताकारत्वात्, इह यद्यदादिमत्प्रतिनियताकारं तत्तद्विद्यामानकर्तृकं दृष्टम्, यथा घटः, यच्चाविद्यमानकर्तृकं तदादिमत्प्रतिनियताकारमपि न भवति,यथाऽऽकाशम्, आदिमत्प्रतिनियताकारस्य चसकर्तृकत्वेन व्याप्तेः, व्यापकविनिर्वृत्तौ व्याप्यस्य विनिवृत्तिरिति सर्वत्र योजनीयम् / तथा विद्यमानाधिष्ठातृकानीन्द्रियाणि, करणत्वात्, यद्यदिह करणं तत्तद्विद्यमानाधिष्ठातृकं दृष्टम्, यथा दण्डादिकमिति, अधिष्ठातारमन्तरेण करणत्वानुपपत्तिः यथाऽऽकाशस्य, हृषीकाणां चाधिष्ठाताऽऽत्मा, स च तेभ्योऽन्य इति, तथा विद्यमानाऽऽदातृकमिदमिन्द्रियविषयकदम्बकम्, आदानादेयसद्भावात्, इह 0 परिस्पन्दादिकां (मु०)। 0 तदसङ्गतम् (मु०)10 नाभ्राणां प्रतिनियत आकारः, जम्बूद्वीपादिलोकस्थितिनिषेधार्थमादिमत्त्वम्। 0 सकर्तृत्वेन व्याप्ते:8 व्यापकनिवृत्तौ (मु०)। // 40 //