________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 38 // श्रुतस्कन्धः१ प्रथममध्ययनं समय:, प्रथमोद्देशकः सूत्रम् 12 तज्जीवतच्छरीरवादि भवन्तीति तात्पर्यार्थः, तथाहि तदागमः- विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्य संज्ञाऽस्ती ति, ननु प्रागुपन्यस्तभूतवादिनोऽस्य च तज्जीवतच्छरीरवादिनः को विशेष इति?, अत्रोच्यते, भूतवादिनो भूतान्येव कायाकारपरिणतानि धावनवल्गनादिकां क्रियां कुर्वन्ति, अस्य तु कायाकारपरिणतेभ्यो भूतेभ्यश्चैतन्याख्य आत्मोत्पद्यतेऽभिव्यज्यते वा, तेभ्यश्चाभिन्न इत्ययं विशेषः॥११॥ एवं च धर्मिणोऽभावाद्धर्मस्याप्यभाव इति दर्शयितुमाह नत्थि पुण्णे व पावेवा, नत्थि लोए इतो वरे / सरीरस्स विणासेणं, विणासो होइ देहिणो।सूत्रम् 12 // पुण्यं अभ्युदयप्राप्तिलक्षणं तद्विपरीतं पापमेतदुभयमपि न विद्यते, आत्मनो धर्मिणोऽभावात्, तदभावाच्च नास्ति अतः अस्माल्लोकात् परः अन्यो लोको यत्र पुण्यपापानुभव इति, अत्र चार्थे सूत्रकारः कारणमाह- शरीरस्य कायस्य विनाशेन भूतविचटनेन विनाशः अभावो देहिन आत्मनोऽप्यभावो भवति यतः, न पुनः शरीरे विनष्टे तस्मादात्मा परलोकं गत्वा पुण्यं पापं वाऽनुभवतीति, अतो धर्मिण आत्मनोऽभावात्तद्धर्मयोः पुण्यपापयोरप्यभाव इति, अस्मिंश्चार्थे बहवो दृष्टान्ताः सन्ति, तद्यथा- यथा जलबुद्दो जलातिरेकेण नापरः कश्चिद्विद्यते तथा भूतव्यतिरेकेण नापरः कश्चिदात्मेति, तथा यथा कदलीस्तम्भस्य बहिस्त्वगपनयने क्रियमाणे त्वङ्गात्रमेव सर्वं नान्तः कश्चित्सारोऽस्ति एवं भूतसमुदाये विचटति सति तावन्मा विहाय नान्तः सारभूतः कश्चिदात्माख्यः पदार्थ उपलभ्यते, यथा वाऽलातं भ्राम्यमाणमतद्रुपमपि चक्रबुद्धिमुत्पादयति एवं भूतसमुदायोऽपि विशिष्टक्रियोपेतो जीवभ्रान्तिमुत्पादयतीति, यथा च स्वप्ने बहिर्मुखाकारतया विज्ञानमनुभूयते अन्तरेणैव बाह्यमर्थम्, एवमात्मानमन्तरेण तद्विज्ञानं भूतसमुदायों प्रादुर्भवतीति, तथा यथाऽऽदर्श स्वच्छत्वात्प्रतिबिम्बितो बहिः 7 श्व भिन्न (प्र०)। (c) भूतविघटनेन (मु०)। 0 विघटति (मु०)। 0 दाये (मु०)। 0 बहिः स्थितोऽप्य० (मु०)। // 38 //