________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 37 // श्रुतस्कन्धः१ प्रथममध्ययन समय:, प्रथमोद्देशक: सूत्रम् 11 तज्जीवतच्छरीरवादि विवेकाभावाच्छास्त्रप्रणयनाभावश्च स्यादिति / एतदर्थसंवादित्वात्प्राक्तन्येव नियुक्तिगाथाऽत्र व्याख्यायते, तद्यथा-पञ्चानां पृथिव्यादीनां भूतानामेकत्र कायाकारपरिणतानां चैतन्यमुपलभ्यते, यदि पुनरेक एवात्मा व्यापी स्यात्तदा घटादिष्वपि चैतन्योपलब्धिः स्यात्, न चैवम्, तस्मान्नैक आत्मा, भूतानां चान्याऽन्यगुणत्वं न स्याद्, एकस्मादात्मनोऽभिन्नत्वात्, तथा पञ्चेन्द्रियस्थानानां- पञ्चेन्द्रियाश्रितानां ज्ञानानां प्रवृत्तौ सत्यामन्येन ज्ञात्वा विदितमन्यो न जानातीत्येतदपि न स्याद्यद्येक एवात्मा स्यादिति // 10 // साम्प्रतं तज्जीवतच्छरीरवादिमतं पूर्वपक्षयितुमाह पत्तेअंकसिणे आया, जे बाला जे अपंडिआ।संति पेच्चा न ते संति, नत्थि सत्तोववाइया॥ सूत्रम् 11 // 8 तज्जीवतच्छरीरवादिनामयमभ्युपगमः-यथा पञ्चभ्यो भूतेभ्यः कायाकारपरिणतेभ्यश्चैतन्यमुत्पद्यते अभिव्यज्यतेवा, तेनैकैकं शरीरं प्रति प्रत्येकमात्मानः कृत्स्नाः सर्वेऽप्यात्मान एवमवस्थिताः, ये बाला अज्ञा ये च पण्डिताः सदसद्विवेकज्ञास्ते सर्वेऽपि पृथग व्यवस्थिताः, नोक एवात्मा सर्वव्यापित्वेनाभ्युपगन्तव्यो, बालपण्डिताद्यविभागप्रसङ्गात्, ननु प्रत्येकशरीराश्रयत्वेनात्मबहुत्वमार्हतानामपीष्टमेवेत्याशङ्कयाह- सन्ति विद्यन्ते यावच्छरीरं विद्यन्ते तदभावे तु न विद्यन्ते, तथाहि- कायाकारपरिणतेषु भूतेषु चैतन्याविर्भावो भवति, भूतसमुदायविचटने च चैतन्यापगमो, न पुनरन्यत्र गच्छच्चैतन्यमुपलक्ष्यते , इत्येतदेव दर्शयति- पेच्चा न ते संती ति प्रेत्य परलोके न ते आत्मानः सन्ति विद्यन्ते, परलोकानुयायी शरीराद्भिन्नः स्वकर्मफलभोक्तान कश्चिदात्माख्यः पदार्थोऽस्तीति भावः / किमित्येवमत आह- नत्थि सत्तोववाइया अस्तिशब्दस्तिङन्तप्रतिरूपको निपातो बहुवचने द्रष्टव्यः, तदयमर्थः- न सन्ति न विद्यन्ते सत्त्वाः प्राणिन उपपातेन निर्वृत्ता औपपातिका- भवाद्भवान्तरगामिनो न O नियुक्तिकृद्गाथा (मु०)। 0 पिच्चा (मु०)। 0 विघटने (मु०)। 0 पलभ्यते (मु०)। // 37 //