SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 33 // अनुभूतानुमानव्यक्तिवदिति एतच्चानुमानम्, अथ परप्रसिद्ध्यैतदुच्यते तदप्ययुक्तम्, यतस्तत्परप्रसिद्धमनुमानं भवतःप्रमाणम- श्रुतस्कन्धः१ प्रमाणं वा?, प्रमाणं चेत्कथमनुमानमप्रमाणमित्युच्यते, अथाप्रमाणं कथमप्रमाणेन सता तेन परः प्रत्याय्यते?, परेण तस्य प्रथममध्ययन समयः, प्रामाण्येनाभ्युपगतत्वादिति चेद्, तदप्यसाम्प्रतम्, यदि नाम परो मान्द्यादप्रमाणमेव प्रमाणमित्यध्यवस्यति, किं भवताऽति प्रथमोद्देशकः निपुणेनापि तेनैवासौ प्रतिपाद्यते?, यो ह्यज्ञो गुडमेव विषमिति मन्यते किंतस्य मारयितुकामेनापि बुद्धिमता गुड एव दीयते?, नियुक्ति:३३ ज्ञानात्मसिद्धिः तदेवं प्रत्यक्षानुमानयोः प्रामाण्याप्रामाण्ये व्यवस्थापयतो भवतोऽनिच्छतोऽपि बलादायातमनुमानस्य प्रामाण्यम् / तथा स्वर्गापवर्गदेवतादेः प्रतिषेधं कुर्वन् भवान् केन प्रमाणेन करोति?, न तावत्प्रत्यक्षेण प्रतिषेधः कर्तुं पार्यते, यतस्तत्प्रत्यक्षं प्रवर्तमानं वा तन्निषेधं विदध्यान्निवर्तमानं वा?, न तावत्प्रवर्तमानम्, तस्याभावविषयत्वविरोधात्, नापि निवर्तमानम्, यतस्तच्च नास्ति तेन च प्रतिपत्तिरित्यसंगतम्, तथाहि-व्यापकविनिवृत्तौ व्याप्यस्य विनिवृत्तिरिष्यते, न चार्वाग्दर्शिप्रत्यक्षेण समस्तवस्तुव्याप्तिःसंभाव्यते, तत्कथं प्रत्यक्षविनिवृत्तौ पदार्थव्यावृत्तिरिति?, तदेवं स्वर्गादेः प्रतिषेधं कुर्वताचार्वाकेणावश्यं प्रमाणान्तरमभ्युपगतम् / तथाऽन्याभिप्रायविज्ञानाभ्युपगमाच्च स्पष्टमेव प्रमाणान्तरमभ्युपगतम्, अन्यथा कथं परावबोधाय शास्त्रप्रणयनमकारि चार्वाकेणेत्यलमतिप्रसङ्गेन / तदेवं प्रत्यक्षादन्यदपि प्रमाणमस्ति, तेनात्मा सेत्स्यति, किं पुनस्तदिति वेद्, उच्यते, अस्त्यात्मा, असाधारणतद्गुणोपलब्धेः, चक्षुरिन्द्रियवत्, चक्षुरिन्द्रियं हि न साक्षादुपलभ्यते, स्पर्शनादीन्द्रियासाधारणरूपविज्ञानोत्पादनशक्त्या त्वनुमीयते, तथाऽऽत्माऽपि पृथिव्याद्यसाधारणचैतन्यगुणोपलब्धेरस्तीत्यनुमीयते, चैतन्य 8 // 33 // च तस्यासाधारणो गुण इत्येतत्पृथिव्यादिभूतसमुदाये चैतन्यस्य निराकृतत्वादवसेयम् / तथा अस्त्यात्मा, समस्तेन्द्रियो मौढ्याद०(मु०)10 व्याप्यस्यापि(वि) निवृत्ति (मु०)।0 चार्वाक्दर्शित० (प्र०)10 संसाध्यते (प्र०)।७ गमादत्र स्प० (मु०)। 0 साधारणगुण (मु०)।।। dh
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy